This page has been fully proofread once and needs a second look.

५ स्तोत्रम् ]
 
स्तुतिकुसुमाञ्जलिः ।
 
नेत्रोत्पलोपरि परिस्फुरदुत्तरङ्ग-

भृङ्गावलिद्वितयाविभ्रमभृत्कवीन्द्राः ॥ १८ ॥
 

 
लभ्य इति । कविभिः स सुजनः सहृदयजनः कुत्र लभ्यः । चेल्लभ्यस्ताईतर्हि भाग्यवत्ते-

त्यर्थः । स सुजनः क इत्याह –स्वकृतीः स्वकाव्यानि अप्ग्रे प्रदर्श्य यस्य सुजनस्य भ्रूक-

न्दलीयुगलं भ्रूलतायुग्मं नेत्रेत्यादि विशिष्टमाकलयन्ति पश्यन्ति । नेत्रे एवोत्पले तयो-

रुपरि परिस्फुरत् यदुत्तरङ्गं चपलं भृङ्गावलिद्वितयं भृङ्गपङ्क्तिद्वयं तस्य विभ्रमं विलासं

विभर्तीिति तादृग्भ्रूलतायुग्मम् । स्वकृतीः प्रदर्श्य हर्षोत्तरलितभ्रूलतः सहृदयजनः

कविवरैर्दुर्लभ इत्यर्थः ॥
 

 
स्फारेण सौरभभरेण किमेणनाभे-
स्तदा

स्तद्धा
नसारमपि सारमसारमेव ।

स्त्रक्सौमनस्यपि न पुष्यति सौमनस्यं
 

प्रस्यन्दते यदि मधुद्रवमुक्तिदेवी ॥ १९ ॥
 
१९
 

 
स्फारेणेति । उक्तिदेवी वाग्देवी मधुद्रवं रसायनरसद्रवं यदि प्रस्यन्दते प्रकर्षेण स्र-

ति तदा स्फारेणोद्भटेन सौरभभरेण सौगन्ध्यातिशयेन एणनाभे: कस्तूरिकायाः किं

भवति । न किंचित्तेन कार्यमित्यर्थः । तदा तद्धानसारं घनसारस्य कर्पूरस्येदं धाघानसार-

मपि सारमसारमेव भवति । 'सारो बले स्थिरांशे च न्याय्ये क्लीबे वरे त्रिषु' इत्यमरः ।

वरे उत्कृष्टे । तदा सुमनसां पुष्पाणामियं सौमनसो स्रक् मालापि सौमनस्यं प्रमोदं न

पुष्यति न वर्धयति ॥
 

 
संसारमारवपथप्रथमानखेद -

विच्छेदकोविदमिदं कविकर्म जीयात् ।

विस्मारितं यदमुना यमुनासनाथं
 

पाथः प्रसिद्धमपि वैबुधसैन्धवं नः ॥ २० ॥
 

 
संसारेति । संसार एव मारवपथो मरुमार्गः । मरुर्निर्जलो देश: । 'समानौ मरुध-

न्वानौ' इत्यमरः । तत्र प्रथमानो वर्धमानो यः खेदस्तस्य विच्छेदे कोविदं निपुणं इद-

मित्यध्यक्षं श्रीशिवभक्तिरसामृतसिक्तमित्यर्थः । जीयात् जयतु । तत्कुत इत्याह-

यद्यस्मात्कारणादमुना निपुण कविकर्मणा यमुनासनाथं प्रसिद्धमपि यामुनीयमिहानत्या (?)

संगतं वैबुधसैन्धवं विबुधसिन्धोरिदं देवनद्याः पाथो वारि विस्मारितम् । जनस्येति

शेषः । श्रीशिवभक्तिरसामृतसिक्तनिपुणकविकर्मास्वादनेनैव संसारमरुभ्रमणोत्थतापखेद-

विच्छेदः । किं गङ्गायमुनासंगमसेवनेनेति भावः ॥
 

 
गाम्भीर्यशालिनि शुचावमृतौघशीते

नीते सदा सदनतां मदनान्तकेन ।
 
Digitized by Google.