This page has been fully proofread once and needs a second look.

काव्यमाला ।
 
हारधवलस्य हिमहारशुभ्रस्यापूर्वोऽद्भुतः स कोऽपि पाकः परीपाको जयति सर्वोत्कृष्टये
टो
भवति । यः संप्रतीदानीं वर्तमानजन्मनि अमलासु निर्मलासु निर्दोषासु बालचन्द्रावचू-

लस्य चन्द्रकलावतंसस्य श्रीशिवस्य नुतिरूपा याः सूक्तयस्तासु प्रतिफलति प्रतिबिम्बते ।

प्रकटीभवतीत्यर्थः । प्राचीनानेकजन्मोपार्जितसुकृतपरिपाकेन परमेश्वरस्तुतिसूक्तिषु स-

त्कविबुद्धिः प्रसरतीत्यर्थः ॥
 

 
सूक्ष्मार्थदर्शनविमर्शवशप्ररूढ-

भ्रूकाण्डताण्डवनिवेदितचिद्विकासम् ।

आस्वाद्य यत्सुमतयो मुखमुद्रहान्त
 

 
वहन्ति
सूक्तामृतं जयति तत्कविकुञ्जराणाम् ॥ १६ ॥

 
सूक्ष्मार्थेति । कविकुञ्जराणां श्रेष्ठाः कवयः कविकुञ्जरास्तेषाम् । 'स्युरुत्तरपदे व्या-

घ्रपुंगवर्षभकुञ्जराः । सिंहशार्दूलनागाद्याः पुंसि श्रेष्ठार्थवाचकाः ॥' इत्यमरः । तत्सूक्तामृतं

जयति सर्वोत्कृष्टं भवति । तत्किमित्याह – सूक्ष्मार्थेति । सुमतयो विमलबुद्धयः सहृ-

दयाः सूक्ष्मार्थेत्यादिविशिष्टम् । श्रीशिवस्तुतिप्रबन्धे इति शेषः । यः सूक्ष्मो लक्ष्यो

व्यङ्ग्यश्चार्थस्तस्य दर्शनं विचारणं तस्य विमर्शवशेन प्रकर्षेण रूढमुत्पन्नं यन्त्रकाण्डताण्डवं

तेन निवेदितश्चिद्विकासश्चैतन्योल्लासो यस्य तत् । तादृशं मुखं स्ववदनं यत्काव्यामृत-

मास्वाद्यो द्वहन्ति धारयन्ति । प्रौढोक्तिविचारणध्यानासक्तनिःस्पदनकरणप्ग्रामस्य मु

खस्य श्रृभ्रूताण्डवेनैव चेतनावत्त्वज्ञानमनुमेयमिति भावः ॥
 

 
शब्दार्थमात्रमपि ये न विदन्ति तेऽपि
 

यां मुर्छनामिव मृगाः श्रवणैः पिबन्तः ।

संरुद्धसर्वकरणप्रसरा भवन्ति
 

चित्रस्थिता इव कवीन्द्रागिरं नुमस्ताम् ॥ १७ ॥

 
शब्दार्थमात्रमिति । वयं तां कवीन्द्रगिरं महाकविवाणीं स्तुमः । तां कामित्याह -

यां गिरं वाणीं श्रवणैः पिबन्तश्चित्रस्थिता इव चित्रलिखिता इव भवन्ति । किंभूताः ।

संरुद्धेति । संरुद्धः सर्वकरणानां सर्वेन्द्रियाणां ज्ञानेन्द्रियाणां कर्मेन्द्रियाणां च प्रसरः

संचारो येषां तादृशाः । कां के इव । मृगा अत्र हरिणा मूर्छनामारोहावरोहाभ्यां गी-

तसारणा मूर्छना तां श्रवणैः कर्णैः पिबन्तो यथा निःस्पन्दसर्वकरणप्ग्रामा भवन्ति तथे-

त्यर्थः । तथा चोक्तम् – 'हरति हरिणचित्तं का कथा चेतनानाम्' इत्यादि । ते के

इत्याह – ये मुढाः शब्दार्थमात्रमपि शब्दस्य घटपदा देरर्थस्तन्मात्रमपि न विदन्ति न

जानन्ति । परमार्थस्य तु कैव कथेत्यर्थः ॥
 

 
लभ्यः स कुत्र सुजनः स्वकृतीः प्रदर्श्य

भ्रूकन्दलीयुगलमाकलयन्ति यस्य ।
 
Digitized by Google