This page has been fully proofread once and needs a second look.

स्तुतिकुसुमाञ्जलिः ।
 
५७
 
५ स्तोत्रम् ]
धुर्यौजःप्रसादाख्यैस्त्रिभिरुपचयं
 
परिपूर्णत्वं याता । तथा प्रकृत्या विमला निर्मला

बुद्धिर्वाणी च निर्दोषा । तथा वृद्धिर्वाणी च किंभूता । प्रथमामाद्यां परिणांत परिपाकं

प्रौढत्वं वहन्ती । सांख्यमते बुद्धिर्गुणैस्त्रिभिः सत्वरजस्तमोभिरुपचयं परिपूर्णतां प्राप्ता

भवति । तथा विमला प्रकृत्या सत्त्वरजस्तमसामाद्यावस्था प्रकृतिः । तस्या नैसर्गिक्रीं

स्वाभाविकीकीं प्रथमां परिणतितिं परिणामं वहन्ती । प्रकृतेराद्यः परिणामो बुद्धितत्वमिति

सांख्याः । तथा च – 'प्रकृतेर्महांस्ततोऽहंकारस्तस्माच्च गणः षोडशकः । तस्मादपि षो-

डशकात्पश्चभ्यः पञ्चभूतानि ॥' परिणती रूपान्तरम् ॥

 
[^१]
चन्द्रावचूडचरणस्मरणप्रसाद-

संदर्भनिर्भरगभीरगिरां कवीनाम् ।

सूक्तिर्विबिभर्ति मुखपङ्कजरङ्गनृत्य-

द्वाग्देवताकनकनूपुरनादलीलाम् ॥ १३ ॥
 

 
चन्द्रावचूडेति । चन्द्रावचूडस्य चन्द्रमौले: श्रीशिवस्य चरणस्मरणेन यः प्रसादस्तस्य

संदर्भोंभो गुम्फः प्रसादरूपो वा संदर्भोंभो ग्रन्थस्तेन निर्भरा पूर्णा गभीरा गीर्येषां ते । तादृ-

शानां कवीनां सूक्तिः शोभना उक्तिः मुखमेव पङ्कजं पद्मं तदेव रङ्गो नाट्यस्थलं तत्र नृ-

त्यन्ती या वाग्देवता तस्याः कनकनूपुरयोः स्वर्णमञ्जीरयोर्नादलीलां नादोपमां वहतीत्यर्थः ॥

 
काव्यं विभाव्य निजमर्धनिमीलितानि

नैसर्गिकं जहति चापलमीक्षणानि ।

गृह्णन्ति तन्मसृणतां सहजां विहाय
 
.
 

भ्रूवछ्ल्लयस्तु कृतिनां कविपुंगवानाम् ॥ १४ ॥

 
काव्यमिति । कृतिनां धन्यानां कविपुंगवानां महाकवीनां निजं काव्यम् । शिवै-

कशरणमिति शेषः । विभाव्य विचार्य पश्चिमे यामिनीयामादौ तद्रसास्वादचमत्काराद-

र्धनिमीलितानि पिहितानि नैसर्गिकं स्वाभाविकं चापलं जहति त्यजन्ति । निःस्पन्दानि

भवन्तीत्यर्थः । तेषां कविपुंगवानां भ्रूवल्लयो भ्रूलताः । तुः पक्षान्तरे । तच्चापलं गृह्णन्ति ।

किं कृत्वा । मसृणतां मन्थरतां विहाय त्यक्त्वा ॥
 

 
नीहारहारधवलस्य जयत्यपूर्वः
 

पाकः स कोऽपि सुकृतस्य कृतस्य पूर्वम् ।

यः संप्रति प्रतिफलत्यमलासु बाल-

चन्द्रावचूलनुतिसूक्तिषु सत्कवीनाम् ॥ १५ ॥
 

 
नीहारेति । सत्कवीनां कविवराणां पूर्वं प्राचीनानेकजन्मसुकृतस्य पुण्यस्य नीहार-

 
[^
]. 'चन्द्रार्धचूड' इति ख-पाठः
 
C
 
Digitized by Google