2023-10-08 06:28:54 by jayusudindra
This page has been fully proofread once and needs a second look.
काव्यमाला ।
इति शेषः । कवयति वर्णयति वर्णनीयं स कविता द्वितीयश्चकास्ति । भूतल इति शेषः ।
द्वावपि विशिनष्टि—स एकः सविता किंभूतः । त्रैलोक्यभूषणमणिः । कविता च तादृगेव
त्रैलोक्येऽपि तद्यशःसंचारात् । सविता किंभूतः । गुणिवर्गबन्धुः । कविता च गुणिनां
विदुषां बन्धुः । स एकः सविता क इत्याह – यस्येत्यादि । पृथिवीभृतः पर्वता अपि
शि
महिमातिशयं माहात्म्योत्कर्
यस्य स्त्रवन्त्यमृतमेव मुखे तुषार-
हाराभिरामरुचिरञ्चितवक्रभङ्गिः ।
सूक्तिर्द्युसिन्धुरिव मूर्ध्नि हरस्य चन्द्र-
।
लेखेव वा वसति तं सुक
यस्येति । वयं तं सुकविं कविवरं नमामः । तं कमित्याह – सूक्तिः शोभना प्रौढा
उक्तिर्यस्य मुखे वदने वसति । वसतीति क्रियाया मुखे इति दूरस्थपदेनान्वयेऽपि भक्ति-
विषये न दोषः । केव । हरस्य मूर्ध्नि शिरसि द्युसिन्धुः स्वर्गङ्गेव । तथा हरस्यैव मूर्ध्नि च-
न्द्रलेखेव चन्द्रकलेव वा वसति । त्रयमपि विशिनष्टि – स्रवन्तीत्यादिना । कविसूक्तिः
किंभूता । अमृतं सुधारसं स्रवन्ती । चन्द्रकलापि तादृशी । द्युसिन्धुः किंभूता । अमृतं
वारि स्रवन्ती । 'अमृतं मोक्षवारिणोः । अयाचिते यज्ञशेषे देवान्नसुधयोरपि' इति मङ्
पुनः किंभूता कविसूक्तिः । तुषारं हिमं हारश्च मुक्तामयः तद्वदभिरामा निर्दोषा रुचि-
र्यस्याः । गङ्गा चन्द्रकलापि तादृश्येव । तथा सूक्तिः कीदृशी । अश्चिता रम्या वक्रभङ्गि-
रुपचारव
रङ्गभङ्गयो यस्याः । चन्द्रकलापि अ
शोभा यस्याः ॥
याता गुणैरुपचयं वि
नैसर्गि
बुद्धिः सतां शशिकलामुकुटप्रसादा-
द्वाणी च न क्वचिदपि प्रतिघातमेति ॥ १२ ॥
यातेति । एवंविधा सतां विपश्चितां कवीनाम् । 'सन्सुधीः पण्डितः कविः' इति
मङ्
तिघातं नैति । क्वापि न प्रतिहन्यत इत्यर्थः । द्वे अपि विशिनष्टि-बुद्धिः किंभूता ।
गुणैर्नैपुण्यगाम्भीर्यकोमलात्वांदिभिरुपचयमाधिक्यं याता । वाणी च किंभूता । गुणैर्मा -
[^१]. 'विमलं' इति ख- पाठः
[^२]. 'वहन्तां' इति
Digitized by Google