2023-02-23 21:27:07 by ambuda-bot
This page has not been fully proofread.
५ स्तोत्रम्]
स्तुतिकुसुमाञ्जलिः ।
१९
सहृदयानाम् । 'धीमान्सूरिः कृती कृष्टिः' इत्यमरः । भ्रूकाण्डं च कुण्डले च किरीटं
च शिरोधरा च तासां नृत्तोपदेशे गुरुतां दैशिकतामुपैति । तत्प्रौढोक्तिश्रवणेन विप
श्चितः शिरो घूर्णयन्तीत्यर्थः । तथा चोक्तं नलचम्पूनिबन्धे महाकविना त्रिविक्रमभट्टेन -
'कि कवेस्तस्य काव्येन कि काण्डेन धनुष्मतः । परस्य हृदये लग्नं न घूर्णयति य
च्छिरः ॥ इति ॥
आवर्जयन्ति मठराञ्जठरार्थमात्र-
पात्रीकृतार्थकणिका गणिकाविटाद्याः ।
प्रौढान्पुनर्भुजगभूषणभक्तिसिक्त-
सूक्तावलीविरचनाचतुराः
कवीन्द्राः ॥ ८ ॥
आवर्जयन्तीति । जठरार्थमात्रमुदरपूरणार्थमात्रं पात्रीकृता व्यथिता अर्थकणिका
धनकणाः वेश्यापक्षे । विटानां पक्षे तु- अर्थकणा चाटुकरणोपहासवचनकणिका यैस्ते
तादृशा गणिकाविटाद्या वेश्याषिङ्गाद्या मठरान्मूर्खान् । मठर इति रूढिपदम् । आव
र्जयन्ति वशीकुर्वन्ति । पुनः पक्षान्तरे । भुजगेति । भुजगभूषण: फणिहार: श्रीशिव-
स्तस्य या भक्तिर्वाव्यनः कायैस्तदेकतासक्तिस्तया सिक्ता या सूक्तावली तस्या विरच
नायां चतुराः प्रगल्भाः कवीन्द्राः कतिपये महाकवयः प्रौढान्प्रगल्भधिषणानावर्जयन्ति
वशीकुर्वन्ति ॥
धन्यः स कोऽपि सुकविः कविकर्म कृत्त-
लोकार्ति कार्तिकतुषारकरानुकारि ।
गायन्ति यस्य कृतिनस्त्रिजगत्पवित्रं
चित्रं चरित्रमिव बालमृगामौलेः ॥ ९ ॥
धन्य इति । स कोऽपि विरलः सुकविः कविवरो धन्यो भाग्यवान्भवति । कृतिनो
विद्वांसः बालशशाङ्कमौलेर्बालेन्दुचूडामणेः श्रीशिवस्य चरित्रमिव चित्रमनेकविधमाश्चर्य-
मयं च त्रिजगत्पवित्रं त्रिजगति पवित्रं कविकर्म काव्यं यस्य सुकवेर्गायन्ति । किंभू-
तम् । कृत्तलोकार्ति । कृत्ता छेदिता लोकानां जनानामार्तिर्मन:पीडा येन तत् । पुनः
किंभूतम् । कार्तिकतुषार करानुकारि । कृत्तिकाभिर्युक्ता पौर्णमासी कार्तिकी सा यस्मिन्स
कार्तिकः । अत्र पूर्णेत्यर्थात् । कार्तिकपूर्णेन्द्वनुकारीत्यर्थः । चरित्रपक्षेऽपि तथैव ॥
त्रैलोक्यभूषणमणिर्गुणिवैर्गबन्धु
रेकश्वकास्ति सविता कविता द्वितीयः ।
शंसन्ति यस्य महिमातिशयं शिरोभिः
पादग्रहं विदधतः ष्टथिवीभृतोऽपि ॥ १० ॥
१. 'गुणवर्ग' इति खम् पाठः
Digitized by Google