This page has been fully proofread once and needs a second look.

५४
 
काव्यमाला ।
 
प्रबन्धाः साहित्योक्तयस्तेषां संघाने बन्धने बन्धुरा रम्या गीर्वाणी येषां ते कवयो ज-

यन्ति सर्वोत्कृष्टा भवन्ति । ते के इत्याह - येषां मधुरा हृद्या भणितिरुपचारवक्रलक्ष्य-

व्यङ्गथार्थसंनिबद्धोक्तिः कर्णे कृतैव श्रुतमात्रैव चमत्करोति । किंभूता । आचर्वितो न

सम्यगास्वादितो रसो यस्याः सा । केव । सुधेव । यथा सुधाया रसनाग्रस्पर्शमात्रेणापि च
मत्कारस्तथा
-
मत्कारस्तथा

महाकविप्रौढोक्त्येत्यर्थः । एतद्वृत्ताभिप्रायेण कविकाव्यप्रशंसाप्रसङ्गे ममापीदं

वृत्तद्वयम् –'एकः श्लोकवरो रसौघमधुरो हृद्यः सतां सत्कवेर्नैवेष्टः कुकवेः प्रलापबहुलः

कृत्स्नः प्रबन्धोऽपि वा । वक्रोक्त्या वलितः सहासरभसः पौराङ्गनाविभ्रमो हर्षोत्कर्ष-

करो यथा नहि तथा ग्रामीणवध्वा रतम् ॥' तथा – 'व्यङ्ग थग्य प्रोतरसानुकूलमधुरस्पष्टाक्ष-

राणि क्रमात्पीयूषद्रवगर्वहृन्ति निपुणं दृब्धानि धौताशयैः । नृत्यन्तीव पदानि यत्र सु-

जनश्लाघास्पदान्येव तत्काव्यं काव्यमतः परं जनमनोहाराय भावेव सा (?) ॥'

 
तेऽनन्तवाङ्मयमहार्णवदृष्टपाराः
 

सांयात्रिका इव महाकवयो जयन्ति ।

यत्सूक्तिपेलवलवङ्गलवैरवैमि
 

सन्तः सदःसु वदनान्यधिवासयन्ति ॥ ६ ॥
 

 
तेऽनन्तेति । अनन्तो यो वाङ्मयमहार्णवः । वाङ्मयं चतुर्दशविद्यास्थानरूपमेव महा-

र्णवः तस्य दृष्टं पारं यैस्ते महाकवयः । द्वित्रा इति शेषः । जयन्ति सर्वोत्कृष्टा भवन्ति ।

क इव । सांयात्रिका इव । समुदितानां यात्रा संयात्रा सा प्रयोजनमस्य सांयात्रिकः पो-

तवणिगिव । 'सांयात्रिकः पोतवाणक्' इत्यमरः । सोऽप्यनन्तमहोदधिदृष्टपारो भवति ।

ते के इत्याह – येषां शोभनाश्च ता उक्तयः सूक्तय एव कोमललवङ्गलवास्तैः सन्तो वि-

द्वांसः सहृदयाः सदःसु सभासु वदनानि स्वाननानि अधिवासयन्ति । अद्भुतरसचर्वणेन

सुरभीकुर्वन्ति । लवङ्गजातीफलपूगादिसुरभिवस्तुचर्वणेन मतिजाड्यापगम इत्यायुर्वेदे ।

तथा चोक्तमनेनैव कविना स्वकृतायां बालबोधिन्यां कातन्त्रवृत्तौ – 'इह युक्त्यनुगामान-

वद्यहृद्यक्रमदृब्धाः कृतिनां हरन्तु वाचः । मतिजाढ्यलवं लवङ्गजाती फलपूतासविला-

समासृजन्त्या (?) ॥' इति ॥
 

 
जिह्वाग्ररङ्गभुवि सत्कवितुर्विलास-

लास्योत्सवव्यसनिनी स्वयमुक्तिदेवी ।

भ्रूकाण्डकुण्डलकिरीटशिरोधराणां
 

नृत्तोपदेशगुरुतां कृतिनामुपैति ॥ ७ ॥
 

 
जिह्वामेग्रेति । सत्कवितुर्महाकवेः कस्यचित् जिह्वाप्ग्रमेव रङ्गभू रङ्गस्थानं तत्र स्वयमेव

साक्षादेव विलासः । प्रौढोक्तीनामिति शेषः । स एव लास्यम् । पक्षे विलासश्च लास्यं

च । तस्योत्सवस्तत्र व्यसनिनी व्यसनयुक्ता उक्तिदेवी वाग्देवी कृतिनां विपश्चितां
 
Digitized by Google