This page has been fully proofread once and needs a second look.

५ स्तोत्रम्]
 
स्तुतिकुसुमाञ्जलिः ।
 
धन्याः सुशुचीनि सुरभीणि गुणोम्भितानि

वाग्वीरुधः स्ववदनोपवनोद्गतायाः ।

ञ्च्चित्य सूक्तिकुसुमानि सतां विविक्त-

वर्णानि कर्णपुलिनेष्ववतंसयन्ति ॥ ३ ॥
 

 
धन्या इति । धन्या भाग्यवन्तः । कवय इति शेषः । शुचीनि पदार्थदोषरहितानि

निर्मलानि पवित्राणि च । सुरभीणि शंभुभक्तिरसामृतामोदसुगन्धीनि । तथा गुणैर्मा-

धुर्यौजःप्रसादाख्यैस्त्रिभिः । पक्षे गुणैस्तन्तुभिरुम्भितानि प्ग्रथितानि । तथा विविक्तव-

र्णानि । 'विविक्तौ पूतविजनौ' इत्यमरः । विविक्ताः शुद्धा वर्णा अक्षराणि । पक्षे विविक्तः

शुद्धो वर्णः श्वेतपीतादिर्येषां तानि सूक्तिकुसुमानि शोभनोक्तिप्रसूनानि । स्ववदनेति ।

स्ववदनमेवोपवनं तस्मादुद्गताया उत्पन्नाया वाग्वीरुधः वाग्वाण्येव वीरुल्लता तस्याः

प्रागुक्तविशेषणानि सूक्तिकुसुमान्युञ्चित्य सूक्तिकुसुमावचयं कृत्वा सतां विदुषां सहृद-

यानां कर्णपुलिनेषु कर्णतटेष्ववतंसयन्त्यवतंसीकुर्वन्ति । ते धन्या इत्यर्थः ॥

 
श्रोत्राण्यनर्गलगलन्मधुबिन्दुगर्भ-

संदर्भसुन्दरपदोपचितैर्वचोभिः ।

धन्याः सतां सुकवयः सुखयन्ति तेऽपि

तेषामकृत्रिमचमत्कृतिसाधुवादैः ॥ ४ ॥
 

 
५३
 

 
श्रोत्राणीति । शोभनाश्च ते कवयो महाकवयो धन्या भाग्यवन्तः सतां विदुषां

सहृदयानां श्रोत्राणि सुखयन्ति । श्रोत्रसुखं वितरन्तीत्यर्थः । कैः । वचोभिः सूक्तैः ।

किंभूतैः। अनर्गलमव्युच्छिन्नं गलन्तो ये मधुबिन्दवः । 'मधु क्षौद्रे जले क्षीरे मद्ये

पुष्परसे मधु' इति विश्वः । ते गर्नेभे यस्य स तादृशश्चासौ संदर्भोंभो ग्रन्थस्तत्र यानि

सुन्दराणि रम्याणि निर्दोषाणि च पदानि सुप्तिङन्तानि तैरुपचितानि तादृशैः । एता-

दृशैर्वचोभिः सतां कियदुपकुर्वन्तीत्यर्थः । तेऽपीत्याह- तेऽपि सन्तोऽपि विद्वांसोऽपि

सहृदयास्तेषां कवीनां श्रोत्राणि कर्णान्सुखयन्ति । अकृत्रिमेत्यादि । सहजचमत्कार-

पूर्वकप्रशंसावचनैस्ते सन्तोऽपि तान्प्रत्युपकुर्वन्तीत्यर्थः ॥

 
ते केचिदस्खलितबन्धनवप्रबन्ध-

संधानबे [^१]बन्धुरगिरः कवयो जयन्ति ।

येषामचर्वितरसापि चमत्करोति
 

कर्णे कृतैव भणितिर्मधुरा सुधेव ॥ ५ ॥
 

 
ते केचिदिति । अस्खलितो बन्धः क्रमो रचना च येषां तादृशा ये नवा अपूर्वाः
 

 
[^
]. 'बन्धुरधियः' इति ख-पाठः.
 
Digitized by Google