This page has not been fully proofread.

५ स्तोत्रम्]
 
स्तुतिकुसुमाञ्जलिः ।
 
धन्याः सुचीनि सुरभीणि गुणोम्भितानि
वाग्वीरुधः स्ववदनोपवनोद्गतायाः ।
उञ्चित्य सूक्तिकुसुमानि सतां विविक्त-
वर्णानि कर्णपुलिनेष्ववतंसयन्ति ॥ ३ ॥
 
धन्या इति । धन्या भाग्यवन्तः । कवय इति शेषः । शुचीनि पदार्थदोषरहितानि
निर्मलानि पवित्राणि च । सुरभीणि शंभुभक्तिरसामृतामोदसुगन्धीनि । तथा गुणैर्मा-
धुर्यौजःप्रसादाख्यैस्त्रिभिः । पक्षे गुणैस्तन्तुभिरुम्भितानि प्रथितानि । तथा विविक्तव-
र्णानि । 'विविक्तौ पूतविजनौ' इत्यमरः । विविक्ताः शुद्धा वर्णा अक्षराणि । पक्षे विविक्तः
शुद्धो वर्णः श्वेतपीतादिर्येषां तानि सूक्तिकुसुमानि शोभनोक्तिप्रसूनानि । स्ववदनेति ।
स्ववदनमेवोपवनं तस्मादुद्गताया उत्पन्नाया वाग्वीरुधः वाग्वाण्येव वीरुल्लता तस्याः
प्रागुक्तविशेषणानि सूक्तिकुसुमान्युञ्चित्य सूक्तिकुसुमावचयं कृत्वा सतां विदुष सहृद-
यानां कर्णपुलिनेषु कर्णतटेष्ववतंसयन्त्यवतंसीकुर्वन्ति । ते धन्या इत्यर्थः ॥
श्रोत्राण्यनर्गलगलन्मधुबिन्दुगर्भ-
संदर्भसुन्दरपदोपचितैर्वचोभिः ।
धन्याः सतां सुकवयः सुखयन्ति तेऽपि
तेषामकृत्रिमचमत्कृतिसाधुवादैः ॥ ४ ॥
 

 
५३
 
श्रोत्राणीति । शोभनाश्च ते कवयो महाकवयो धन्या भाग्यवन्तः सतां विदुषां
सहृदयानां श्रोत्राणि सुखयन्ति । श्रोत्रसुखं वितरन्तीत्यर्थः । कैः । वचोभिः सूक्तैः ।
किंभूतैः। अनर्गलमव्युच्छिन्नं गलन्तो ये मधुबिन्दवः । 'मधु क्षौद्रे जले क्षीरे मद्ये
पुष्परसे मधु' इति विश्वः । ते गर्ने यस्य स तादृशश्चासौ संदर्भों ग्रन्थस्तत्र यानि
सुन्दराणि रम्याणि निर्दोषाणि च पदानि सुप्तिङन्तानि तैरुपचितानि तादृशैः । एता-
दृशैर्वचोभिः सतां कियदुपकुर्वन्तीत्यर्थः । तेऽपीत्याह- तेऽपि सन्तोऽपि विद्वांसोऽपि
सहृदयास्तेषां कवीनां श्रोत्राणि कर्णान्सुखयन्ति । अकृत्रिमेत्यादि । सहजचमत्कार-
पूर्वकप्रशंसावचनैस्ते सन्तोऽपि तान्प्रत्युपकुर्वन्तीत्यर्थः ॥
ते केचिदस्खलितबन्धनवप्रबन्ध-
संधानबेन्धुरगिरः कवयो जयन्ति ।
येषामचर्वितरसापि चमत्करोति
 
कर्णे कृतैव भणितिर्मधुरा सुधेव ॥ ५ ॥
 
ते केचिदिति । अस्खलितो बन्धः क्रमो रचना च येषां तादृशा ये नवा अपूर्वाः
 
१. 'बन्धुरधियः' इति ख-पाठः.
 
Digitized by Google