2023-02-23 21:27:07 by ambuda-bot
This page has not been fully proofread.
काव्यमाला ।
पञ्चमं स्तोत्रम् ।
अथातः कविकाव्यप्रशंसाख्यं पञ्चमं स्तोत्रं वर्णयमाह -
आपन्नतापहरणप्रवणा घृणेव
१२
त्वङ्गत्तरङ्गसुभगा गगनापगेव ।
पीयूंषसारशिशिरा शशभृत्कलेव
वाणी शिवैकशरणा जयतीश्वरीव ॥ १ ॥
आपन्नतापेति । अत्रोपमानीकृतासु घृणादिषु सर्वत्र शिवैकशरणा इति संबन्धः ।
शिव एवैकः शरणं स्थानं रक्षिता वा यस्याः । 'शरणं गृहराक्षत्रोः' इत्यमरः । ईदृशी
वाणी अर्थात्कवेर्जयति सर्वोत्कृष्टा भवति । धातोरनेकार्थत्वाज्जयतिरत्र धातुः सर्वोत्कृ-
ष्टार्थे । शिंवैकशरणा वाणी कीदृशी। आपन्नतापहरणप्रवणा आपन्नानां जन्मजरामरणातु-
राणां ताप आध्यात्मिकाधिदैविकाधिभौतिक भेदेन त्रिविधः । तस्य हरणं तत्र प्रवणा
लग्ना । केव । शिवैकशरणा घृणेव । श्रीशंभुकृपापि तादृशी । तथा वाणी कीदृशी । त्वङ्ग-
दित्यादि । त्वङ्गन्त उल्लसन्तो ये तरङ्गास्तद्वत्सुभगा रम्या । केव । गगनापगेव स्वर्गङ्गेव ।
सापि त्वङ्गन्त उल्लसन्तो ये तरङ्गास्तैः सुभगा रम्या शिवैकशरणा च । पुनः किंभूता
वाणी । पीयूषसारशिशिरा पीयूषस्यामृतस्य यः सारो दन इव शरः तद्वच्छिशिरातिशी-
तला । केव । शशभृत्कलेव चन्द्रकलेव । सापि पीयूषसारेण शिशिरा शिवैकशरणा च
भवति । पुनः कीदृशी । शिवैकशरणा शिव एवैकं शरणं स्थानं यस्याः सा । केव । ई-
श्वरी पार्वतीव । ईष्टे ईश्वरी । 'अश्नोतेराशुकर्मणि वरट् च । टित्त्वात् ङीप् । ईश्वरी ।'
इति स्वामी । सापि शिवैकशरणा भवति ॥
यो मूर्धनि स्वजमिवोद्वहते धरित्री-
मुष्णीषतां श्रयति यस्य स भोगिराजः ।
यस्यामसौ वसति वाक्पतिरुक्तिदेवीं
तां ये वहन्ति हृदि ते कवयो जयन्ति ॥ २ ॥
यो मूर्धनीति । ते कवयो निपुणाः कविकर्मकर्तारो जयन्ति सर्वोत्कृष्टा भवन्ति ।
अत्र हेतुमाह—मूर्धनीत्यादि । ये कवयस्तां वाग्देवीम् । अपिशब्दस्त्वार्थः । तामपि
सर्वोत्कृष्टामित्यर्थः । हृदि चेतसिं वहन्ति धारयन्ति । तां कामित्याह - असौ वाक्प-
तिर्वाचां परापश्यन्तीमध्यमावैखरीभेदेन चतुर्विधानां पतिः परमात्मा परमशिवो यस्यां
वाग्देव्यां निजशक्तिस्वरूपाय वसति अन्तरुल्लसति । परनादस्वरूपेणेत्यर्थः । असौ
श्रीशिवभट्टारकः । कः । यस्य शंभोरुष्णीषतां शिरोवेष्टनतां स भोगिराजः शेषनागः श्रयात,
यो धरित्रीं भूमिं पश्चाशत्कोटिविस्तारामपि मूर्धनि शिरसि स्रजं मालामिव निरायास-
मुद्रइति भारयात ॥
Digitized by Google