2023-10-07 16:01:10 by jayusudindra
This page has been fully proofread once and needs a second look.
स्तुतिकुसुमाञ्जलिः ।
यस्मिन्गुणी सहृदयः सफलः समूलः
स्वातन्त्र्यधामनि करात्पतितः स पद्मः ।
कम्बुः स्थितस्तु धृततद्विपरीतरीति-
स्तन्मङ्गलं दिशतु हारिहरं वपुर्वः ॥ ७ ॥
यस्मिन्निति । तत् हारिहरं वपुर्वीवो युष्मभ्यं मङ्गलं भद्रं दिशतु । तत्किम् । यस्मिन्
हरिहरवपुषि हरार्धमाभागे स प्रसिद्धः पद्मः करात्पतितः न धृतः । दूरीकृत इत्यर्थः । पद्यते
लक्ष्मीरत्रेति पद्मः । 'पद गतौ' । किंभूतः पद्मः । गुणास्तन्तवः गुणाः सौन्दर्यविद्वत्ता-
दयश्च यस्य । पुनः किंभूतः । सहृदयः सह हृदयेन कर्णिकारूपेण वर्तते यः । सहृदयते
यो
हृदयालुश्च । 'हृदयालुः सहृदयः' इत्यमरः । तथा सफलः सह फलैः पद्माक्षैर्वर्तते योऽसौ
सफलः । सार्थकञ्च । तथा समूलः सह मूलेन शाहूलूकेन वर्तते यः । समूलकारणश्च ।
अत्र हेतुमाह - वपुषि किंभूते । स्वातन्त्र्यधामनि स्वतन्त्रतास्थाने । 'न खलु परतन्त्राः
प्रभुधियः' इति स्तोत्रराजोक्तेः । शब्दश्लेषः । गुणिनः सहृदयस्य सार्थकस्य समूलका-
रणस्य च जनस्य दूरीकरणे , यत्स्वातन्त्र्यमेव प्रभूणां प्रसिद्ध मित्यर्थः । तथा यस्मिन्व
-
पुषि हर्यर्धे तद्विपरीतरीतिः । ततः पद्माद्विपरीतरीतिः कम्बुः शङ्खः पाञ्चजन्यः ।
अगुणः अहृदयः अफलः निर्मूलञ्श्च यच्छव<flag></flag>स्तत्र स्थितस्तत्रापि स्वातन्त्र्यधामनीति हेतुः ॥
पादाग्रनिर्गतमवारितमेव वारि
४ स्तोत्रम्]
११
यत्राधिरोहति शिरस्त्रिदशापगायाः ।
अत्यद्भुतं च रुचिरं च निरङ्कुशं च
तन्मङ्गलं दिशतु हारिहरं वपुर्वः ॥ ८ ॥
पादाप्ग्रनिर्गतमिति । अत्यद्भुतं महाश्चर्यकारि रुचिरमतिरम्यं निरङ्कुशं स्वतन्त्रं च
तत् हारिहरं वपुत्रर्वो मङ्गलं श्रेयो दिशतु । तत्किमित्याह - यद्वपुषि हरार्धे त्रिदशापाया
गङ्गाया वारि जलं शिरोऽधिरोहति । गङ्गाधर इति विभुनाम प्रसिद्धमित्यर्थः । किंभूतं
गङ्गाया वारि । अवारितं निर्निरोधम् । पुनः किंभूतम् । हर्यर्धभागे पादाप्ग्रान्निर्गतम् ।
गङ्गा विष्णुपदी जह्नुतनया इति प्रसिद्धेविष्णुपादाप्ग्रनिर्गतत्वात्तस्याः । अत्राद्भुतत्वं वा-
रिण ऊर्ध्वगमनात् । जलस्य हि निम्नाधोगामित्वं प्रसिद्धम् । गङ्गाया ईदृग्वारिधारणा-
द्वपुषोऽद्भुतत्वम् । तथा रुचिरत्वं सितकरकरधवलस्वर्गङ्गाधारणात् । निरङ्कुशत्वं स्वत-
न्त्रत्वं च पादाधः स्थस्य वारिणः शिरस्यारोपणादिति भावः ॥
इति
श्रीराजानकशंकरकण्ठात्मजरत्नकण्ठविरचितया लघुपश्चिकया समेतं काश्मीरक-
महाकविश्रोजगद्धरभट्टविरचिते भगवतो महेश्वरस्य स्तुतिकुसुमाञ्जलौ
मङ्गलाष्टकं नाम चतुर्थथं स्तोत्रम् ।
Digitized by Google
यस्मिन्गुणी सहृदयः सफलः समूलः
स्वातन्त्र्यधामनि करात्पतितः स पद्मः ।
कम्बुः स्थितस्तु धृततद्विपरीतरीति-
स्तन्मङ्गलं दिशतु हारिहरं वपुर्वः ॥ ७ ॥
यस्मिन्निति । तत् हारिहरं वपुर्
हरिहरवपुषि हरार्ध
लक्ष्मीरत्रेति पद्मः । 'पद गतौ' । किंभूतः पद्मः । गुणास्तन्तवः गुणाः सौन्दर्यविद्वत्ता-
दयश्च यस्य । पुनः किंभूतः । सहृदयः सह हृदयेन कर्णिकारूपेण वर्तते यः । सहृद
हृदयालुश्च । 'हृदयालुः सहृदयः' इत्यमरः । तथा सफलः सह फलैः पद्माक्षैर्वर्तते योऽसौ
सफलः । सार्थकञ्च । तथा समूलः सह मूलेन शा
अत्र हेतुमाह - वपुषि किंभूते । स्वातन्त्र्यधामनि स्वतन्त्रतास्थाने । 'न खलु परतन्त्राः
प्रभुधियः' इति स्तोत्रराजोक्तेः । शब्दश्लेषः । गुणिनः सहृदयस्य सार्थकस्य समूलका-
रणस्य च जनस्य दूरीकरणे , यत्स्वातन्त्र्यमेव प्रभूणां प्रसिद्ध
पुषि हर्यर्धे तद्विपरीतरीतिः । ततः पद्माद्विपरीतरीतिः कम्बुः शङ्खः पाञ्चजन्यः ।
अगुणः अहृदयः अफलः निर्मूल
पादाग्रनिर्गतमवारितमेव वारि
४ स्तोत्रम्]
११
यत्राधिरोहति शिरस्त्रिदशापगायाः ।
अत्यद्भुतं च रुचिरं च निरङ्कुशं च
तन्मङ्गलं दिशतु हारिहरं वपुर्वः ॥ ८ ॥
पादा
तत् हारिहरं वपु
गङ्गाया वारि जलं शिरोऽधिरोहति । गङ्गाधर इति विभुनाम प्रसिद्धमित्यर्थः । किंभूतं
गङ्गाया वारि । अवारितं निर्निरोधम् । पुनः किंभूतम् । हर्यर्धभागे पादा
गङ्गा विष्णुपदी जह्नुतनया इति प्रसिद्धेविष्णुपादा
रिण ऊर्ध्वगमनात् । जलस्य हि निम्नाधोगामित्वं प्रसिद्धम् । गङ्गाया ईदृग्वारिधारणा-
द्वपुषोऽद्भुतत्वम् । तथा रुचिरत्वं सितकरकरधवलस्वर्गङ्गाधारणात् । निरङ्कुशत्वं स्वत-
न्त्रत्वं च पादाधः स्थस्य वारिणः शिरस्यारोपणादिति भावः ॥
इति
श्रीराजानकशंकरकण्ठात्मजरत्नकण्ठविरचितया लघुपश्चिकया समेतं काश्मीरक-
महाकविश्रोजगद्धरभट्टविरचिते भगवतो महेश्वरस्य स्तुतिकुसुमाञ्जलौ
मङ्गलाष्टकं नाम चतुर्
Digitized by Google