This page has not been fully proofread.

काव्यमाला ।
 
यत्राद्भुतं स्थिरतडिद्रसितप्रसङ्गं
तन्मङ्गलं दिशतु हारिहरं वपुर्वः ॥ ४ ॥
 
केशाश्रिता इति । तत् हारिहरं वपुर्वो मङ्गलं श्रेयो दिशतु । तत्किमित्याह - यत्र
वपुषि हर्यर्धभागे केशाश्रिता जलदा मेघाः । 'यस्य केशेषु जीमूताः' इति स्मृत्युक्तेः ।
अद्भुतमाश्चर्यकारिणं स्थिरा या तडित् क्षणप्रभा तस्या रसितस्य शब्दस्य प्रसङ्गं प्रकर्षेण
सङ्गं वहन्ति । प्रथमतस्तडित् स्थिरैव न भवति । तस्याः पुनरपि रसितं च स्थिरं न
भवति । अत आश्चर्यम् । पुनर्जलदाः किंभूताः । नयनेत्यादि । नयने तृतीये नेत्रे या
वशिखा अग्निज्वालाः, तथा अभ्रसिन्धोर्गङ्गायाश्च यो झांकारस्तरङ्गनिदः स च
गर्ने यस्य तत्तादृशं वपुर्येषाम् । अत्र हरार्धभागे वह्निशिखागङ्गातरङ्गनिदः ॥
हीनार्धनाभिनलिनालयसंकटत्व-
सातङ्क संकुचितवृत्तिकदर्शिताङ्गः ।
अर्धीचिकीर्षति तनुं द्रुहिणोऽपि यत्र
 
तन्मङ्गलं दिशतु हारिहरं वपुर्वः ॥ ५ ॥
 
हीनार्धनाभीति । तत् हारिहरं वपुर्वो मङ्गलं निःश्रेयसं दिशतु । तत्किमित्याह-
दुयते परेभ्यो द्रुहिणो ब्रह्मापि यत्र वपुषि तनुं स्वकलेवरमर्धीचिकीर्षति । अर्ध कर्तु-
मिच्छति । अत्र हेतुमाह - पद्मनाभार्धे इत्यर्थात् । हीनार्धेति नाभ्या अर्धमर्धनाभि ।
तत्र हीनो यो नलिनालयः पद्मगृहं तत्र संकटत्वमविस्तृतत्वं तेन सातङ्कं सखेदं संकु-
चितवृत्त्या अङ्गसंकोचनस्थित्या कदर्थितानि पीडितान्यङ्गानि यस्य सः ॥
ग्वर्तिनौ रवितमीरमणावखण्ड-
मूर्ती निजं च वपुरर्धमवेत्य वह्निः ।
यत्राधिकं ज्वलति लाघवमागतोऽपि
 
तन्मङ्गलं दिशतु हारिहरं वपुर्वः ॥ ६ ॥
 
-
 
दृग्वर्तिनाविति । तत् हारिहरं वपुर्वो मङ्गलं दिशतु । तत्किमित्याह – यत्र वहिर
निस्तृतीयनयनस्थोऽधिकं ज्वलति । क्रुधेति शेषः । किंभूतोऽपि । लाघवं लघुत्वमागतो-
ऽपि । स्वस्याप्यर्धीकरणादित्यर्थः । तत्राधिकज्वलने हेतुमाह - रवितमीरमणौ सूर्य-
चन्द्रौ अखण्डमूर्ती अखण्डितदेहावेव दृग्वर्तिनौ दक्षिणवामनयनस्थौ दृष्ट्वा स्वं च
वपुरर्धे खण्डितमवेत्य ज्ञात्वा । अत्र हरेर्हरस्य च दक्षिणवामनयनस्थौ सूर्यचन्द्रावित्या
गमप्रसिद्ध्या हरिहरवपुषि सामान्यं तयोस्तत्राखण्डितमूर्तित्वम् । अनेस्तु हरस्यैव
तृतीयनयनस्थत्वादर्धीकरणमित्यर्थः ॥
 
१. ख पुस्तके षष्ठसप्तमश्कयोर्व्यत्ययः.
 
Digitized by Google