This page has been fully proofread once and needs a second look.

४ स्तोत्रम्]
 

 
प्रभृतीनां
इति भावः ॥
 
......
 
स्तुतिकुसुमाञ्जलिः ।
 
……। विषामृतयोः सहोदरत्वेऽप्यतिविनीतत्वात्परस्परं विरोधाभाव
 

इति भावः ॥
 
आपीडबन्धनविधौ शयने च वर्ष्म

पर्याप्तभोगविभवं बहुमन्यमानः ।

यत्र प्रहृष्यतितरामुरगाधिराज-

स्तन्मङ्गलं दिशतु हारिहरं वपुर्वः ॥ २ ॥
 
-
 

 
आपीडेति । तत् हारिहरं वपुर्वो मङ्गलं दिशतु । तत्किमित्याह – यत्र वपुषि उरगा-

धिराजः शेषनागः प्रकर्षेण हृष्यति । किंभूतः । वर्ष्म निजदेहं बहुमन्यमानः धन्यं

मन्यमानः । कुत्र । एकत्र हरार्धभागे आपीडस्य मौलेर्जटाजूटस्य बन्धनविधौ । अन्यत्र

हर्यर्धभागे शयने शय्यायाम् । शेषशायीति प्रसिद्धत्वात् । किंभूतं वर्ष्म । पर्याप्तो

भोगस्य फणिकायस्य विभवो भोगानां च विभवो यस्मिन् ॥
 
अर्ध

 
अर्धं
यदुत्पलदलैरुमयेन्दुगौर-

मर्धं
श्रियार्चितमलिद्युति मालतीभिः ।

विच्छित्तिमेत्यनिमिषेक्षणशुक्तिपेयां

तन्मङ्गलं दिशतु हारिहरं वपुर्वः ॥ ३ ॥
 
अर्ध

 
अर्धं
यदिति । तत् हारिहरं वपुर्वो मङ्गलं दिशतु । तत्किमित्याह – यत् अर्धे
धं
हरस्य इन्दुगौरं शीतांशुशुभ्रं उत्पलदलैः कुवलयदलैः । 'स्यादुत्पलं कुवलयम्'

इत्यमरः । उमया पार्वत्यार्चितं विच्छित्तितिं परमां शोभामुपैति । सितं वस्तु नीलेन

सहातिशोभत इत्यर्थः । तथा अलिद्युति अलिवमरवद्भ्रमरवद्द्युतिः शोभा यस्य तत् अर्
धं
हर्यर्धेधं श्रिया लक्ष्म्या मालतीभिर्जातीभिरर्चितं सत् विच्छित्तिमुपैति । कृष्णं वस्तु

श्वेतेन सहातीव विराजते । किंभूतां विच्छित्तिम् । अनिमिषेत्यादि । अनिमिषाणां

देवानाम् । 'अनिमिषा मत्स्याः सुराः' इति मङ्गःखः । यानीक्षणानि नेत्राणि तान्येव

शुक्तयः पानपात्राणि ताभिः पेयाम् । यद्वा अविद्यमानो निमिषो निमेषो येषां तान्य-

निमिषाणि तानि च तानीक्षणानि तान्येव शुक्तयस्ताभिः पेयाम् । अत्यन्तं दर्शनीया-

मित्यर्थः । निमेषरहितानां नेत्राणामेव शुक्त्यारोपः संगच्छते, न तु सनिमेषाणाम् ।

मधुचषकतुल्ये अस्या नयने इति हि लोके प्रसिद्धम् । तस्मादनिमिषेक्षणान्येव शुक्तय

इति विग्रहः पुष्कलः (?) । देवा अपि निमेषरहिता एव स्वभावात् । अतो देवानां

नेत्राण्यपि शुक्तितुल्यान्येव । अतोऽनिमिषाणामीक्षणानीत्यपि विग्रहः साधुरेव ॥

 
केशाश्रिता नयनवदिह्निशिखाभ्रसिन्धु-

झांकारगर्भवपुषो जलदा वहन्ति ।
 
Digitized by Google