2023-02-23 21:27:06 by ambuda-bot
This page has not been fully proofread.
४ स्तोत्रम्]
प्रभृतीनां
इति भावः ॥
......
स्तुतिकुसुमाञ्जलिः ।
। विषामृतयोः सहोदरत्वेऽप्यतिविनीतत्वात्परस्परं विरोधाभाव
आपीडबन्धनविधौ शयने च वर्ष्म
पर्याप्तभोगविभवं बहुमन्यमानः ।
यत्र प्रहृष्यतितरामुरगाधिराज-
स्तन्मङ्गलं दिशतु हारिहरं वपुर्वः ॥ २ ॥
-
आपीडेति । तत् हारिहरं वपुर्वो मङ्गलं दिशतु । तत्किमित्याह – यत्र वपुषि उरगा-
धिराजः शेषनागः प्रकर्षेण हृष्यति । किंभूतः । वर्ष्म निजदेहं बहुमन्यमानः धन्यं
मन्यमानः । कुत्र । एकत्र हरार्धभागे आपीडस्य मौलेर्जटाजूटस्य बन्धनविधौ । अन्यत्र
हर्यर्धभागे शयने शय्यायाम् । शेषशायीति प्रसिद्धत्वात् । किंभूतं वर्ष्म । पर्याप्तो
भोगस्य फणिकायस्य विभवो भोगानां च विभवो यस्मिन् ॥
अर्ध यदुत्पलदलैरुमयेन्दुगौर-
म श्रियाचितमलिद्युति मालतीभिः ।
विच्छित्तिमेत्यनिमिषेक्षणशुक्तिपेयां
तन्मङ्गलं दिशतु हारिहरं वपुर्वः ॥ ३ ॥
अर्ध यदिति । तत् हारिहरं वपुर्वो मङ्गलं दिशतु । तत्किमित्याह – यत् अर्धे
हरस्य इन्दुगौरं शीतांशुशुभ्रं उत्पलदलैः कुवलयदलैः । 'स्यादुत्पलं कुवलयम्'
इत्यमरः । उमया पार्वत्याचितं विच्छित्ति परमां शोभामुपैति । सितं वस्तु नीलेन
सहातिशोभत इत्यर्थः । तथा अलिद्युति अलिवमरवद्युतिः शोभा यस्य तत् अर्ध
हर्यर्धे श्रिया लक्ष्म्या मालतीभिर्जातीभिरचितं सत् विच्छित्तिमुपैति । कृष्णं वस्तु
श्वेतेन सहातीव विराजते । किंभूतां विच्छित्तिम् । अनिमिषेत्यादि । अनिमिषाणां
देवानाम् । 'अनिमिषा मत्स्याः सुराः' इति मङ्गः । यानीक्षणानि नेत्राणि तान्येव
शुक्तयः पानपात्राणि ताभिः पेयाम् । यद्वा अविद्यमानो निमिषो निमेषो येषां तान्य-
निमिषाणि तानि च तानीक्षणानि तान्येव शुक्तयस्ताभिः पेयाम् । अत्यन्तं दर्शनीया-
मित्यर्थः । निमेषरहितानां नेत्राणामेव शुक्त्यारोपः संगच्छते, न तु सनिमेषाणाम् ।
मधुचषकतुल्ये अस्या नयने इति हि लोके प्रसिद्धम् । तस्मादनिमिषेक्षणान्येव शुक्तय
इति विग्रहः पुष्कलः (?) । देवा अपि निमेषरहिता एव स्वभावात् । अतो देवानां
नेत्राण्यपि शुक्तितुल्यान्येव । अतोऽनिमिषाणामीक्षणानीत्यपि विग्रहः साधुरेव ॥
केशाश्रिता नयनवदिशिखाभ्रसिन्धु-
झांकारगर्भवपुषो जलदा वहन्ति ।
Digitized by Google
।