This page has been fully proofread once and needs a second look.

काव्यमाला ।
 
नास्तेषां सुधावर्षायमाणा अमृतायमाना उक्तयः सूक्तयो येषाम् । अत्रायं संक्षेपार्थ:-

अनिर्वाच्यवदान्यतया त्रिजगद्व्यापियशसो लक्ष्मोवन्तः कविवराश्च यल्लोके दृश्यन्ते स

महिमा परमेश्वरस्तवस्यैवेत्यर्थः । अतः सर्वथा वाङ्मनः कायैस्तदेकताध्यानेन श्रीशिवभ-

क्तिपरैरेव भाव्यमित्यर्थः ॥
 
-
 

 
इति श्रीशारदाचरणसरोजरजःकणपवित्रस्थलवास्तव्यविपश्चिद्वरराजानकशंकरकण्ठात्मज-

राजानकरत्नकण्ठविरचितया लघुपश्ञ्चिकया समेतं काश्मीरकमहाकवि-

श्रीजगद्धर भट्टविरचिते भगवतो महेश्वरस्य स्तुतिकुसुमाञ्जलौ

आशीर्वादाख्यं तृतीयं स्तोत्रम् ।
 

 
चतुर्थं स्तोत्रम् ।
 

 
अथातः श्रीपरमशिवेन निष्कलनाथेन स्वतन्त्रेण स्वेच्छया सकलमूर्तिना शिवभक्त-

मुख्यं हरिं प्रेम्णा निजशरीरार्धप्रदानेनानुगृह्णता अर्धनारीश्वरवदद्भुतं हरिहररूपं यद्व्य-

धायि तदेव मङ्गलाष्टकाख्ये चतुर्थस्तोत्रे संगृह्णन्नाह -

 
श्रीकम्बुकौस्तुभसुधांशुविषामृतानां

सौदर्यसौहृदसुखानुभवैकधाम ।

यत्सत्यधर्मकृतनिष्प्रतिघप्रतिष्ठं
 

तन्मङ्गलं दिशतु हारिहरं वपुर्वः ॥ १ ॥
 

 
श्रीकम्बुकौस्तुभेति । तत् हारिहरं हरिहरसंबन्धि वपुर्वीवो मङ्गलं निःश्रेयसरूपं दिशतु

वितरतु । तत्किमित्याह – श्रीकम्ब्वित्यादि । श्रयति हरिं श्रीः हरिप्रिया । "कम्बति

गच्छति जलान्तः । 'जञ्चात्र्वादयश्च' इति निपातनात्कम्बुः" इति रायमुकुटः । 'काम्यते

मङ्गलेष्विति कम्बुः' इति स्वामी । कम्बुरत्र सुदर्शनाख्य: ( पाञ्चजन्याख्यः) । कुं भूमिं

स्तुम्भ्नाति व्याप्नोति कुस्तुभोऽब्धिः । ततो जातः कौस्तुभो मणिविशेषः । सुधांशुश्चन्द्रः ।

विषं कालकूटाख्यो विषभेदः । अमृतं पीयूषम् । तेषाम् । अत्र कस्मिन् हर्यर्धभागे

श्रीकम्बुकौस्तुभानां पार्श्वकरवक्षःस्थलेषु निवासः । अपरत्र हरार्धभागे सुधांशुविषामृ-

तानां मुकुटगलकरतलेषु निवासः । यद्वपुर्लक्ष्मीप्रभृतीनां सौदर्यसौहृदसुखानुभवैकधाम

भवति । सोदरस्य भावः सौदर्यम् । समानमुदरं यस्य स सोदरः । सोदरशब्दोऽपि

भ्रातृवाचकः । 'अपन्थानं तु गच्छन्तं सोदरोऽपि विमुञ्चति' इति लक्ष्यदर्शनात् । सौ-

दर्येण सहोदर भावेन एकस्मादेव क्षीराब्धेर्जातत्वात् यत्सौहृदं तेन यत्सुखं तस्य योऽनु-

भवः परस्परं ........ तदेकस्थानम् । किंभूतम् । सत्यधर्मेति । सत्यो गरुड: । 'सत्यस्तु

गरुडे चैव' इति कोषः । धर्मो वृषः तयोः कृता निष्प्रतिघा प्रतिष्ठा येन तत् । हरिपक्षे

गरुडो वाहनम् । श्रीशिवपक्षे वृष इत्यर्थः । अथ कदाचित्सहोदराणामपि उपरिमध्या-

धोनिवसनेन परस्परं विरोधोऽपि संभवतीति तत्परिहारार्थं शब्दश्लेषेणाप्याह- सत्यध.
मे॑

र्मे
ति । सत्यधर्मे तथ्यन्याये कृताप्रतिहतप्रतिष्ठम् । यच्च राज्यमेत्तादृग्भवति तत्र लक्ष्मी-
Digitized by Google