This page has been fully proofread once and needs a second look.

३ स्तोत्रम्]
 
स्तुतिकुसुमाञ्जलिः ।
 
राकेन्दोरिति । त्रिजगद्गुरोः परमेश्वरस्य स्तुतीनां कथाः । 'प्रबन्धकल्पना कथा' इत्य-

मरः । तासु यानि सूक्तानि शोभनान्युक्तानि वचनानि तानि वो युष्मान् पुष्णन्तु शि-

वैकतामृतरसेन वर्धयन्तु । किंभूतानि । सुन्दराणि । कस्मादपि । राकेन्दोः पूर्णिमाच-

न्द्रादपि । अर्थादमृतस्यन्दीनि च । तथा षोडशहायनावधि बाला या अङ्गना कामिनी

तस्या या मधुरा आलापकथा: सूक्तानि ता एवामृतं तस्मादपि हृदयग्राहीणि हृद्यानि

तथा हारादपि मुक्ताहारादपि हारीणि मनोहराणि । तथा उत्तालं चतुरं यत् शिखाल-

बालस्य चूडालवाबालस्य वचस्तस्मादपि संपूर्णं यत्कर्णामृतं तत्स्यन्दीनि ॥

 
शाणोल्लीढनवेन्द्रनीलमहसि श्रीकण्ठकण्ठस्थले
 

संसक्ता कनकच्छविर्गिरिसुतादोः कन्दली पातु वः ।

यामालोक्य सनीरनीरददलश्लिष्यत्तडिद्विभ्रम-

भ्रान्त्या नोज्झति चण्डताण्डवनवोल्लेखं शिखी पाषाण्मुखः ॥१९॥

 
शाणोल्लीदेढेति । श्रीकण्ठस्य श्रीशंभोः कण्ठस्थले संसक्ता गिरिसुतादोः कन्दली पार्व-

तीभुजलता वो युष्मान् पातु रक्षतु । भवभयादिति शेषः । किंभूते श्रीकण्ठकण्ठस्थले ।

शाणेन निकषोपलेनोल्लीढं नवं यदिन्द्रनीलं मणिविशेषस्तस्येव महस्तेजो यस्य तत् ता-

दृशे । दोःकन्दली किंभूता । कनकस्येव च्छविः शोभा यस्याः सा । सा केत्या - यां

दोः कन्दलीमालोक्य षण्मुखस्य कुमारस्यायं षाण्मुखः शिखी कुमारवाहनमयूरश्चण्डता-

ण्डवनवोल्लेखं चण्डमुद्धतं यत्ताण्डवम् । ताण्डिर्नृत्यशास्त्रम्, तदस्यास्तीति । 'अन्येभ्यो-

sपि दृश्यते इति वः । पृषोदरादित्वादिकारस्याकारः ताण्डवमिति रायमुकुट्याम् ।

तण्डुना नन्दिकेश्वरेण प्रोक्तमिति तु स्वामी । 'ताण्डवं नटनं नाट्यम्' इत्यमरः । उद्धृतं
यत्राव्

यन्नट्
यं तस्य नवोल्लेखं नोज्झति । सनीरेत्यादि । सनीरो यो नीरदो मेघः । अतिश्यामल

इत्यर्थः । तस्य दलेन खण्डेन श्लिष्यते या तडित्तस्या विभ्रमो विलासस्तस्य भ्रान्त्या ॥
 

 
यत्सर्गाभरणायमानवपुषः केचित्ककुप्कामिनी-

कर्णालंकरणायमान यशसः स्वर्गायमाणश्रियः ।

दुष्कालान लसन्नसज्जनसुधावर्षायमाणोक्तयः
 

प्रेक्ष्यन्ते महिमा स यस्य कुरुतां शार्वः स्तवः शं स वः ॥ ०॥

 
यत्सर्गेति । एवंभूताः केचित् ........ । शर्वसंबन्धी स्तवो वो युष्माकं शं सुखं

ऐहिकामुष्मिकरूपं कुरुताम् । कीदृशाः प्रेक्ष्यन्त इत्याह - सर्गस्य जगत्सृष्टेराभरणाय-

मानं आभरणवदाचरतीति तादृशं वपुर्येषाम् । तथा ककुभो दश दिश: । 'दिशस्तु

ककुमःभः काष्ठाः' इत्यमरः । ता एव कामिन्यः तासां कर्णालंकरणायमानं कर्णावतंसा-

यमानं यशः कीर्तिर्येषां ते । तथा स्वर्गीयमाणा स्वर्गवदाचरमाणा श्रीर्येषाम् । तथा

दुष्कालो वर्तमानस्तुरीययुगसमयः स एवानलस्तेन सन्नाः खेदिता ये सज्जना विद्वज्ज-
Digitized by Google