2023-02-23 21:27:06 by ambuda-bot
This page has not been fully proofread.
३ स्तोत्रम्]
स्तुतिकुसुमाञ्जलिः ।
राकेन्दोरिति । त्रिजगद्गुरोः परमेश्वरस्य स्तुतीनां कथाः । 'प्रबन्धकल्पना कथा' इत्य-
मरः । तासु यानि सूक्तानि शोभनान्युक्तानि वचनानि तानि वो युष्मान् पुष्णन्तु शि-
वैकतामृतरसेन वर्धयन्तु । किंभूतानि । सुन्दराणि । कस्मादपि । राकेन्दोः पूर्णिमाच-
न्द्रादपि । अर्थादमृतस्यन्दीनि च । तथा षोडशहायनावधि बाला या अङ्गना कामिनी
तस्या या मधुरा आलापकथा: सूक्तानि ता एवामृतं तस्मादपि हृदयग्राहीणि हृद्यानि
तथा हारादपि मुक्ताहारादपि हारीणि मनोहराणि । तथा उत्तालं चतुरं यत् शिखाल-
बालस्य चूडालवालस्य वचस्तस्मादपि संपूर्ण यत्कर्णामृतं तत्स्यन्दीनि ॥
शाणोल्लीढनवेन्द्रनीलमहसि श्रीकण्ठकण्ठस्थले
संसक्ता कनकच्छविगिरिसुतादोः कन्दली पातु वः ।
यामालोक्य सनीरनीरददलश्लिष्यत्तडिद्विभ्रम-
भ्रान्त्या नोज्झति चण्डताण्डवनवोल्लेखं शिखी पाण्मुखः ॥१९॥
शाणोल्लीदेति । श्रीकण्ठस्य श्रीशंभोः कण्ठस्थले संसक्ता गिरिसुतादोः कन्दली पार्व-
तीभुजलता वो युष्मान् पातु रक्षतु । भवभयादिति शेषः । किंभूते श्रीकण्ठकण्ठस्थले ।
शाणेन निकषोपलेनोल्लीढं नवं यदिन्द्रनीलं मणिविशेषस्तस्येव महस्तेजो यस्य तत् ता-
दृशे । दोःकन्दली किंभूता । कनकस्येव च्छविः शोभा यस्याः सा । सा केत्या - यां
दोः कन्दलीमालोक्य षण्मुखस्य कुमारस्यायं षाण्मुखः शिखी कुमारवाहनमयूरचण्डता-
ण्डवनवोल्लेखं चण्डमुद्धतं यत्ताण्डवम् । ताण्डिर्नृत्यशास्त्रम्, तदस्यास्तीति । 'अन्येभ्यो-
sपि दृश्यते इति वः । पृषोदरादित्वादिकारस्याकारः ताण्डवमिति रायमुकुट्याम् ।
तण्डुना नन्दिकेश्वरेण प्रोक्तमिति तु स्वामी । 'ताण्डवं नटनं नाट्यम्' इत्यमरः । उद्धृतं
यत्राव्यं तस्य नवोल्लेखं नोज्झति । सनीरेत्यादि । सनीरो यो नीरदो मेघः । अतिश्यामल
इत्यर्थः । तस्य दलेन खण्डेन लिष्य या तडित्तस्या विभ्रमो विलासस्तस्य भ्रान्त्या ॥
यत्सर्गाभरणायमानवपुषः केचित्ककुप्कामिनी-
कर्णालंकरणायमान यशसः स्वर्गायमाणश्रियः ।
दुष्कालान लसन्नसज्जनसुधावर्षायमाणोक्तयः
प्रेक्ष्यन्ते महिमा स यस्य कुरुतां शार्वः स्तवः शं स वः ॥६ ०॥
यत्सर्गेति । एवंभूताः केचित् ........ । शर्वसंबन्धी स्तवो वो युष्माकं शं सुखं
ऐहिकामुष्मिकरूपं कुरुताम् । कीदृशाः प्रेक्ष्यन्त इत्याह - सर्गस्य जगत्सृष्टेराभरणाय-
मानं आभरणवदाचरतीति तादृशं वपुर्येषाम् । तथा ककुभो दश दिश: । 'दिशस्तु
ककुमः काष्ठाः' इत्यमरः । ता एव कामिन्यः तासां कर्णालंकरणायमानं कर्णावतंसा-
यमानं यशः कीर्तिर्येषां ते । तथा स्वर्गीयमाणा स्वर्गवदाचरमाणा श्रीर्येषाम् । तथा
दुष्कालो वर्तमानस्तुरीययुगसमयः स एवानलस्तेन सन्नाः खेदिता ये सजना विद्वज-
Digitized by Google