This page has been fully proofread once and needs a second look.

४६
 
काव्यमाला ।
 
ध्यानमागमोक्तम् । चन्द्रस्यापि द्वादश मूर्तिभेदा द्वादशमासेषु वेदप्रसिद्धाः । ततोऽन-

न्तरं शुभा या दृक् स्वनेत्रं तत्र यन्निवेशनं तद्वशेनोत्पन्नं वाल्लभ्यं स्वामिप्रियत्वं तत्प्रपन्नः

प्राप्तः । अन्ते परां कोटिमारूढे वाल्लभ्ये येन शिवप्रसादेन हेतुना शिरोधिरोपणं स्वामि-

शिरोधिरोपणमेव महामाहात्म्यमनिर्वाच्यं माहात्म्यं विधुश्चन्द्रः प्राप्तः । अनेन सर्वदा

वाङ्नःकायविरचितस्वामिभक्त्याप्तपरमप्रसादमहिम्ना विभूत्यष्टकमणिमादिकं हस्तत-

लगतमेव भवतीति भावः ॥
 

 
यस्यैकस्य सुवर्णसंभृतपदन्यासानवद्यक्रम-

व्यक्तिः प्रेङ्क्षति गौरनर्गलगतिस्वाच्छन्द्यहृद्याकृतिः ।
 

प्रख्याताद्भुतसर्गबन्धरचनासंरब्धिरोजस्विनः
 

काव्यस्योदयभूरसौ भवतु वः प्रीत्यै पुराणः कविः ॥ १७ ॥
 

 

 
यस्यैकस्येति । असौ पुराण: सनातनः कविः सूरिरनादिबोधः परमेशो वो युष्माकं

प्रीत्यै परमानन्दाय भवतु । किंभूतः । ओजस्विनस्तेजस्विवरस्य काव्यस्योशनसः उदय-

भूरुत्पत्तिस्थानम् । 'शुक्रो दैत्यगुरुः काव्य उशना भार्गवः कविः' इत्यमरः । रुद्रस्याङ्ग-

विक्षेपेण निर्गतत्वाच्छुक्रस्येति क्षीरस्वामी । प्रख्यातेति । प्रकर्षेण ख्याता प्रसिद्धा

सर्गस्य सृष्टेर्बन्धस्तस्य रचना तस्याः संरब्धिर्यस्य सः । अतिप्रसिद्धब्रह्माण्ड स्तम्ब पर्यन्तं

सृष्टिरचनासंरम्भ इत्यर्थः । असौ क इत्याह – यस्यैकस्येति । यस्य परमेश्वरस्य एकस्या-

द्वितीयस्य गौरृर्वृषभो वाहनं प्रेङ्खति सर्वत्रोल्लसति । किंभूतो गौः । सुवर्णेन कनकेन सम्य-

ग्
भृतो यः पदानां चरणानां न्यासस्तेनानवद्या क्रमव्यक्तिश्रणविक्षेपव्यक्तिर्यस्य । यत्र

यत्र श्रीशंभुवाहनवृषश्चरति तत्र तत्र तच्चरणेभ्यो जाम्बूनदं पततीत्यागमः । पुनः किं

भूतः । अनर्गला निर्निरोधा गतिस्तस्याः स्वाच्छन्द्यं स्वाधीनता तेन हृद्या हृदयप्रिया

आकृतिर्यस्य सः । अथ च असौ पुराणो वृद्धः कविः कविता प्रीत्यै वोऽस्तु । असौ

क इत्याह – यस्य वृद्धकवेर्गौर्वाणी प्रेङ्ति सततमुल्लसति । किंभूता । शोभना निजनिजर-

सानुकूला ये वर्णा अक्षराणि तैः संभृतः पदानां सुप्तिङन्तानां न्यासो यस्याः सा । तथा

अनवद्या निर्दोषा क्रमस्य परिपाट्या व्यक्तिर्यस्याः सा । दुष्क्रमस्य दुष्टत्वात् । पुनः

किंभूता । अद्भुता आश्चर्यकारिणी सर्गबन्धस्य रचनायाः संरब्धिराटोपो यस्याः सा ।

'सर्गबन्धो महाकाव्यम्' इत्युक्तेः । तथा ओजस्त्रिविन ओजोगुणयुक्तस्य काव्यस्य निपुण-

कविकर्मण उदयभूरुत्पत्तिस्थानम् ॥
 

 
राकेन्दोरपि सुन्दराणि हृदयग्राहीणि बालाङ्गना-

मुग्धालापकथामृतादपि परं हारीणि हारादपि ।

अप्युत्तालशिखालबालवचसः संपूर्णकर्णामृत-

स्यन्दीनि त्रिजगहुद्गुरोः स्तुतिकथासूक्तानि पुष्णन्तु वः ॥ ५८ ॥
 
Digitized by Google