2023-10-07 11:28:53 by jayusudindra
This page has been fully proofread once and needs a second look.
स्तुतिकुसुमाञ्जलिः ।
दत् । एवमग्रेऽपि । श्रीभैरवः । प्रागुक्तमस्य निर्वचनम् । श्रीशिवभट्टारको वो युष्मान्
पातु रक्षतु । समस्तविघ्नेभ्य इति । किमित्याह – भिन्द्धि क्ष्माधरेत्यादि । श्रीभैरवः
क्ष्माधरसंधिबन्धं भिन्द्धि अभिदत् । तथा श्रीभैरवः उदधेः समुद्रस्याम्भोभरं जलौघं
म्भय अजजृम्भत् । उद्धते नाट्ये भुजविक्षेपेणेत्यर्थः । तथा श्रीभैरवः क्षमापटलं भूवलयं
क्षुद्धि अक्षुदत् । किंभूतं क्षमापटलम् । दलन्त्यो याः फणिनः शेषनागस्य फणाः ।
चरणविन्यासभरेणेत्यर्थः । ता एव पीठो तया लुठत्सौष्ठवं प्रागल्भ्यं यत्र तत् । तथा
प्रौढा ये चपेटा इस्ततलाघातास्तै: पाटितं रटन्नि:स्वनत् ताराणां कुटुम्बं समूहो
यस्य तत् । तादृशं नभो व्योम पिण्
संध्यासमयभवं ताण्डवं नाट्यं येन सः ॥
भूत्यै वोऽस्तु विडम्बितरिमतरुतं मूर्धोद्धृत
निध्वानध्वनदाननैरभिनये भूषाकपालैः प्रभोः ।
त्वङ्गत्तुम्बुरुनारदाहतनदद्गम्भीर
व्यावल्गद्गुहवाहबर्हिविहितक्रीडानुकारं वपुः ॥ ५५ ॥
भूत्यै वोऽस्त्विति । प्रभोर्जगत्प्रभोः परमेश्वरस्य वपुः अभिनये संध्यायां नाट्यसम
वो युष्माकं भूत्यै विभूतये मोक्षसंपत्त्यै अस्तु । किंभूतम् । विडम्बितस्मितरुतम् । विड-
म्बितमुपमितं स्मितरुतं अत्र योग्यतयां स्मितमट्टहासस्तद्रुतं हासशब्दो यस्य तत् । कैः ।
मूर्ध्ना उद्धृता चासौ स्वर्धुनो गङ्गा तस्या निध्वानं शब्दस्तेन ध्वनन्ति आननानि मुखानि
येषां तैर्भूषाकपालैः भूषार्थे ब्रह्मादिकपालानि तैः । पुनश्च किंभूतं वपुः । त्वङ्गन्तौ नाट्य-
रङ्गे भ्रमन्तौ यौ तुम्बरुनारदावृषी ताभ्यामाहता वादिता सती नदन्तो चासौ भेरी
तस्या रवस्तेन व्यावल्गन् हर्षान्नृत्यन् यो गुहवाह
क्रीडानुकारः [क्रोडासादृश्यकारि] क्रीडासाम्यं यस्य तद्विभोर्वपुः ॥
आदौ पादतले कृतस्थिति
वाल्लभ्यं शुभ
अन्ते येन शि[^२]रोधिरोपणमहामाहात्म्यमाप्तो विधु-
र्भूत्यै स क्रमवर्धमानमहिमा स्वामिप्रसादोऽस्तु व ॥ ५६ ॥
आदौ पादतल इति । क्रमेण वर्धमानो महिमा यस्य स स्वामिप्रसादः श्रीशंकरा
नुग्रहो वो युष्माकं भूत्यै मोक्षसंपदे अस्तु । स क इत्याह – येन श्रीशिवप्रसादेन हेतुना
विधुश्चन्द्र आदौ पादतले चरणतले कृतस्थितिः सेवार्थमासीत् । ततोऽनन्तरं कराल-
म्व
म्बनं करस्यालम्बनं कर एव वालम्बनमाधारस्तम् । 'देवं सुधाकलशसोम-' इति
[^१]. 'अथ' इति ख- पाठ: .
[^२]. 'शिरोधिरोहण' इति ख- पाठः .
Digitized by Google