This page has not been fully proofread.

३ स्तोत्रम्]
 
स्तुतिकुसुमाञ्जलिः ।
 
चयेऽन्यतरस्याम्' इति सूत्रेण त्यस्तनीप्रथमैकवचने हिआदेशः । तेन भिन्द्धि अभि-
दत् । एवमग्रेऽपि । श्रीभैरवः । प्रागुक्तमस्य निर्वचनम् । श्रीशिवभट्टारको वो युष्मान्
पातु रक्षतु । समस्तविघ्नेभ्य इति । किमित्याह – भिन्द्धि क्ष्माधरेत्यादि । श्रीभैरवः
क्ष्माधरसंधिबन्धं भिन्द्धि अभिदत् । तथा श्रीभैरवः उदधेः समुद्रस्याम्भोभरं जलौघं जू-
म्भय अजजृम्भत् । उद्धते नाट्ये भुजविक्षेपेणेत्यर्थः । तथा श्रीभैरवः क्षमापटलं भूवलयं
क्षुद्धि अक्षुदत् । किंभूतं क्षमापटलम् । दलन्त्यो याः फणिनः शेषनागस्य फणाः ।
चरणविन्यासभरेणेत्यर्थः । ता एव पीठो तया लुठत्सौष्ठवं प्रागल्भ्यं यत्र तत् । तथा
प्रौढा ये चपेटा इस्ततलाघातास्तै: पाटितं रटनि:स्वनत् ताराणां कुटुम्बं समूहो
यस्य तत् । तादृशं नभो व्योम पिण्डि आपिषत् । इत्थमनेन प्रकारेण प्रारब्धमुद्धतं सांध्यं
संध्यासमयभवं ताण्डवं नाट्यं येन सः ॥
 
भूत्यै वोऽस्तु विडम्बितरिमतरुतं मूर्धोद्धृत स्वर्धुनी-
निध्वानध्वनदाननैरभिनये भूषाकपालैः प्रभोः ।
त्वङ्गत्तुम्बुरुनारदाहतनदगम्भीर भेरीरव-
व्यावल्गद्गुहवाहबर्हिविहितक्रीडानुकारं वपुः ॥ ५५ ॥
 
भूत्यै वोऽस्त्विति । प्रभोर्जगत्प्रभोः परमेश्वरस्य वपुः अभिनये संध्यायां नाट्यसम
वो युष्माकं भूत्यै विभूतये मोक्षसंपत्त्यै अस्तु । किंभूतम् । विडम्बितस्मितरुतम् । विड-
म्बितमुपमितं स्मितरुतं अत्र योग्यतयां स्मितमहासस्तद्रुतं हासशब्दो यस्य तत् । कैः ।
मूर्ध्ना उद्धृता चासौ स्वर्धुनो गङ्गा तस्या निध्वानं शब्दस्तेन ध्वनन्ति आननानि मुखानि
येषां तैर्भूषाकपालैः भूषार्थे ब्रह्मादिकपालानि तैः । पुनश्च किंभूतं वपुः । त्वङ्गन्तौ नाट्य-
रङ्गे भ्रमन्तौ यौ तुम्बरुनारदावृषी ताभ्यामाहता वादिता सती नदन्तो चासौ भेरी
तस्या रवस्तेन व्यावल्गन् हर्षानृत्यन् यो गुहवाहवहीं कुमारवाहनमयूरस्तेन विहितः
क्रीडानुकारः [क्रोडासादृश्यकारि] क्रीडासाम्यं यस्य तद्विभोर्वपुः ॥
आदौ पादतले कृतस्थितिरैथो प्राप्तः करालम्बनं
 
वाभ्यं शुभहडिवेशनवशोत्पन्नं प्रपन्नस्ततः ।
अन्ते येन शिरोधिरोपणमहामाहात्म्यमाप्तो विधु-
भूत्यै स क्रमवर्धमानमहिमा स्वामिप्रसादोऽस्तु व ॥ ५६ ॥
आदौ पादतल इति । क्रमेण वर्धमानो महिमा यस्य स स्वामिप्रसादः श्रीशंकरा
नुग्रहो वो युष्माकं भूत्यै मोक्षसंपदे अस्तु । स क इत्याह – येन श्रीशिवप्रसादेन हेतुना
विधुश्चन्द्र आदौ पादतले चरणतले कृतस्थितिः सेवार्थमासीत् । ततोऽनन्तरं कराल-
म्वनं करस्यालम्बनं कर एव वालम्बनमाधारस्तम् । 'देवं सुधाकलशसोम-' इति
१. 'अथ' इति ख- पाठ:. २. 'शिरोधिरोहण' इति ख- पाठः.
 
Digitized by Google