This page has been fully proofread once and needs a second look.

काव्यमाला ।
 
श्रीकण्ठस्य सकृत्तिकार्तभरणी मूर्तिः सदारोहिणी

ज्येष्ठा भद्रपदा पुनर्वसुयुता चित्रा विशाखान्विता ।

दिश्यादक्षतहस्तमूलघटिताषाढा मघालंकृता
 

श्रेयो वैश्रवणाश्रिता भगवतो नक्षत्रपालीव वः ॥ ५३ ॥

 
श्रीकण्ठस्येति । श्रीकण्ठस्य श्रोशंभोर्मूर्तिर्वो युष्मभ्यं श्रेयो निःश्रेयसं दिश्यात् ददा-

तु । केव । नक्षत्रपालीव नक्षत्राणामश्विन्यादीनां पाली पङ्किक्तिरिव । द्वे अपि विशिन-

ष्टि — श्रीशिवस्य मूर्तिः किंभूता । सकृत्तिका । कृत्तिर्व्याघ्रचर्मैव कृत्तिका । सह कृत्ति-

कया वर्तते या सा । 'व्याघ्रचर्मपरीधानं गजचर्मोत्तरोयकम्' इति श्रीस्वच्छन्दतन्त्रोक्तेः ।

तथा आर्तानां भवभयातिपीडितानां भरणी पोषिका । तथा सतो भक्तिप्रह्वान्विदुषः

आरोहयति स्वपदं प्रापयति तादृशी । तथा ज्येष्ठा । ब्रह्मादिकारणानामध्प्यादौ सद्भा-

वात् । तथा भद्रकारि पदमास्पदं यस्याः सा । तथा पुनरपि च वसुना तेजोरूपेण मह-

ता युता । अथवा वसुभिर्देवयोनिभिरष्टाभिर्युता । तथा चित्रा आश्चर्यकारिणी सूर्या

दिधामत्रय्या लोचनत्रयीगतत्वादिनेत्यर्थः । तथा विशाखेन कुमारेणान्विता । 'विशाखः

शिखिवाहनः' इत्यमरः । तथा अक्षते अनाहते हस्तमूले करतले घटितो मिलित

आषाढ: पालाशो दण्डो यस्याः सा । 'पालाशो दण्ड आषाढः' इत्यमरः । मधेघेन सौ-

ख्येन महता महिम्ना वा अलंकृता भूषिता । तथा वैश्रवणेन धनदेन स्वसख्या आ

श्रिता । नक्षत्रपङ्किक्तिरपि किंभूता । सकृत्तिका सह कृत्तिकया कृत्तिकाख्येनाग्निदेवतेना-

न्विता । तथा आर्तभरणी । आ ईषत् अर्थादेकदेशेन ऋता गता भरणी याम्यं यस्यां

सा। 'आत्तभरणी' इति पाठे आत्ता गृहीता भरणी नाम तारा यया सा इति नक्षत्र-

पालीविशेषणम् । शिवमूर्तिपक्षे तु आत्ता भक्तलेत्वेन स्वीकृताः तान्बिभर्ति पोषयतीति ।

तथा सदारोहिणी सदा नित्यमेव निकटस्था रोहिणी प्राजापत्यभं यस्याः । ज्येष्ठया भद्र-

पदाभ्यां पूर्वोत्तरभद्रपदाभ्यां पुनर्वसुना च नक्षत्रविशेषेण युता । तथा चित्रया विशाख-

या चान्विता युक्ता । तथा वै निश्चये प्रसिद्धौ वा । श्रवणेन विष्णुदैवतर्क्षेणाश्रिता भव-

ति । एतद्द्वृत्तार्थाभिप्रायेण मदीयमध्प्येकं वृत्तम् – 'आर्द्रा कृपामृतरसेन सकृत्तिका

षा (?) शिवस्य समघा सविशाखपार्श्वा । आश्चर्यमात्तभरणी च जगत्रयस्य क्रूरपङ्क्ति-

रिव मङ्गलमातनोति ॥' इति ॥
 
श्ले
 
-
 

 
भिन्द्धि क्ष्माधरसंधिबन्धमुदधेरम्भोभरं जृम्भय

क्षुन्द्धि क्ष्मापटलं दलत्फणिफणापीठीलुठत्सौष्ठवम् ।

पिण्डूिड्ढि प्रौढचपेटपाटितरटत्ताराकुटुम्बं नभः
 

प्रारब्धोद्धतसांध्यताण्डव इति श्रीभैरवः पातु वः ॥ १४ ॥

 
भिन्द्वीधीति । 'क्रियासमभिहारे लोट् लोटो हिस्वौ वा च तध्वमोः' इत्यनुवर्त्य 'समु
 
Digitized by Google
 
-