This page has not been fully proofread.

काव्यमाला ।
 
श्रीकण्ठस्य सकृत्तिकार्तभरणी मूर्तिः सदारोहिणी
ज्येष्ठा भद्रपदा पुनर्वसुयुता चित्रा विशाखान्विता ।
दिश्यादक्षतहस्तमूलघटिताषाढा मघालंकृता
 
श्रेयो वैश्रवणाश्रिता भगवतो नक्षत्रपालीव वः ॥ ५३ ॥
श्रीकण्ठस्येति । श्रीकण्ठस्य श्रोशंभोर्मूर्तिर्वो युष्मभ्यं श्रेयो निःश्रेयसं दिश्यात् ददा-
तु । केव । नक्षत्रपालीव नक्षत्राणामश्विन्यादीनां पाली पङ्किरिव । द्वे अपि विशिन-
ष्टि — श्रीशिवस्य मूर्तिः किंभूता । सकृत्ति । कृत्तिर्व्याघ्रचर्मैव कृत्तिका । सह कृत्ति-
कया वर्तते या सा । 'व्याघ्रचर्मपरीधानं गजचर्मोत्तरोयकम्' इति श्रीस्वच्छन्दतन्त्रोक्तेः ।
तथा आर्तानां भवभयातिपीडितानां भरणी पोषिका । तथा सतो भक्तिप्रवान्विदुषः
आरोहयति स्वपदं प्रापयति तादृशी । तथा ज्येष्ठा । ब्रह्मादिकारणानामध्यादौ सद्भा-
वात् । तथा भद्रकारि पदमास्पदं यस्याः सा । तथा पुनरपि च वसुना तेजोरूपेण मह-
ता युता । अथवा वसुभिर्देवयोनिभिरष्टाभिर्युता । तथा चित्रा आश्चर्यकारिणी सूर्या
दिधामत्रय्या लोचनत्रयीगतत्वादिनेत्यर्थः । तथा विशाखेन कुमारेणान्विता । 'विशाखः
शिखिवाहनः' इत्यमरः । तथा अक्षते अनाहते हस्तमूले करतले घटितो मिलित
आषाढ: पालाशो दण्डो यस्याः सा । 'पालाशो दण्ड आषाढः' इत्यमरः । मधेन सौ-
ख्येन महता महिम्ना वा अलंकृता भूषिता । तथा वैश्रवणेन धनदेन स्वसख्या आ
श्रिता । नक्षत्रपङ्किरपि किंभूता । सकृत्तिका सह कृत्तिकया कृत्तिकाख्येनाग्निदेवतेना-
न्विता । तथा आर्तभरणी । आ ईषत् अर्थादेकदेशेन ऋता गता भरणी याम्यं यस्यां
सा। 'आत्तभरणी' इति पाठे आत्ता गृहीता भरणी नाम तारा यया सा इति नक्षत्र-
पालीविशेषणम् । शिवमूर्तिपक्षे तु आत्ता भक्तलेन स्वीकृताः तान्बिभर्ति पोषयतीति ।
तथा सदारोहिणी सदा नित्यमेव निकटस्था रोहिणी प्राजापत्यभं यस्याः । ज्येष्ठया भद्र-
पदाभ्यां पूर्वोत्तरभद्रपदाभ्यां पुनर्वसुना च नक्षत्रविशेषेण युता । तथा चित्रया विशाख-
या चान्विता युक्ता । तथा वै निश्चये प्रसिद्धौ वा । श्रवणेन विष्णुदैवतर्क्षेणाश्रिता भव-
ति । एतद्द्वृत्तार्थाभिप्रायेण मदीयमध्येकं वृत्तम् – 'आर्द्रा कृपामृतरसेन सकृत्तिका
षा (?) शिवस्य समघा सविशाखपार्श्वा । आश्चर्यमात्तभरणी च जगत्रयस्य क्रूरपति-
रिव मङ्गलमातनोति ॥' इति ॥
 
श्ले
 
-
 
भिन्द्धि क्ष्माधरसंधिबन्धमुदधेरम्भोभरं जृम्भय
क्षुन्द्धि क्षमापटलं दलत्फणिफणापीठीलुठत्सौष्ठवम् ।
पिण्डूि प्रौढचपेटपाटितरटत्ताराकुटुम्बं नभः
 
प्रारब्धोद्धतसांध्यताण्डव इति श्रीभैरवः पातु वः ॥ १४ ॥
भिन्द्वीति । 'क्रियासमभिहारे लोट् लोटो हिस्वौ वा च तध्वमोः' इत्यनुवर्त्य 'समु
 
Digitized by Google
 
-