This page has been fully proofread once and needs a second look.

स्तुतिकुसुमाञ्जलिः ।
 
देवः सेवकभुक्तिमुक्तिघटनाभूर्भूर्भुवः स्वस्त्रयी-

निर्माणस्थितिसंहृतिप्रकटितक्रीडो मृडः पातु वः ॥ ५१ ॥
 
३ स्तोत्रम्]
 
४३
 

 
त्रातेति । एवंविधो मृहःडः मृडयति सुखयति जगन्निःश्रेयसप्रदानेन मृडः श्रीशिवो वो

युष्मान् पातु । भवभयादित्यर्थः । किंभूतः । भोभीतिभृतां भवरोगभयधारिणां त्राता रक्षि-

ता । तथा चिदचितां चेतनाचेतनानां पतिः । तथा सतां स्वात्मनः शिवाभेदप्रथां वि-

दुषां शंसतां स्तुवतां क्लेशं मायावरणजं हन्ता । तथा भक्तिमतां वान्ङ्मनः कायकर्मभिः

शिवैकताध्यानं भक्तिस्तद्वतां मतामभिमतां स्वस्य समतां स्वसायुज्यं कर्ता । तथा अस

तामज्ञानां श्रीशिवशासनद्वेषिणामपकर्ता हन्ता । तथा देवः सेवकानां भक्तिप्रह्वाणां भु-

क्तिर्भोगसंहतिरूपा मुक्तिर्निःश्रेयसमपुनर्जन्मरूपं तयोर्या घटना संप्रदानं तस्या भूः स्था-

नम् । आरोपः । भूर्भूलोकश्च भुवो भुवोलोकश्च स्वः स्वर्लोकश्च तानि । एतदुपलक्ष-

णम् । तेन महोलोकप्रभृतीनामपि ग्रहणम् । तेषां या निर्माणस्थितिसंहृतयः सर्गस्थि-

तिसंहारास्ताभिः प्रकटिता क्रोडा येन सः ॥
 

 
कृष्णेन
 
त्रिजगत्प्रसिद्धविजयप्रख्यातिनालोचनं
 

भक्त्या वासवसूनुना कृतवता पादाब्जपूजाविधौ ।

यस्मादाप्तसुदर्शनेन निखिलं विश्वं विधेयीकृतं
 

कृष्णेनेव स धूर्जटिर्घटयतु श्रेयांसि भूयांसि नः ॥ १२ ॥

 
कृष्णेनेति । धूर्गङ्गा जटायां मुकुटे यस्य स धूर्जटि: परमेशो भूयांसि बहुतराणि

श्रेयांसि ऐहिकामुष्मिकानि शुभानि घटयतु । तत्संघटनां करोत्वित्यर्थः । स कः । यस्मात्

श्रीशिवभट्टारकात् आप्तसुदर्शनेन प्राप्तसुदर्शनाख्यचक्रेण [कृष्णेन] देवकीनन्दनेनेव

आप्तसुदर्शनेन लब्धशोभनदर्शनेन कृष्णेनार्जुनेन विश्वं जगत् विधेयीकृतं स्वायत्तीकृ

तम् । जितमित्यर्थ: । 'कृष्णस्तु केशवे व्यासे वायसे कोकिलेऽर्जुने' इति विश्वः । द्वाव-

पि विशिनष्टि-कृष्णेनार्जुनेन कथंभूतेन । त्रिजगति प्रसिद्धा विजय इति प्रख्यातिः प्रसि-

द्धिर्यस्य तेन । 'अर्जुनः फाल्गुनो जिष्णुः किरीटी श्वेतवाहनः । बीभत्सुर्विजयः कृष्णः

सव्यसाची धनंजयः ॥' इत्यर्जुननाम्नां प्रसिद्धेः । तथा श्रीशिवस्य पादाब्जपूजाविधौ

चरणकमलार्चनविधौ आलोचनं नित्यचिन्तनं कृतवता । तथा वासवसूनुना इन्द्रसु-

तेन । श्रीकृष्णेनापि कथंभूतेन । त्रिजगत्प्रसिद्ध विजयस्य जयशब्दस्य कंसचाणूरादीनां

जगद्विध्वंसकराणां विजयात् प्रख्यातिर्यस्य तेन । तथा वासवसूनुना वासवस्येन्द्रस्य

सूनुरनुजस्तेन । 'सूनुः पुत्रेऽनुजेऽपि इति विश्वः । पुनः किंभूतेन श्रीकृष्णेन ।

विभोः श्रीशिवस्य पादाब्जपूजाविधौ चरणकमलार्चन विधौ लोचनं कृतवता दत्तवता ।

धातूनामनेकार्थत्वात् । तथा चोक्तं महिम्नः स्तवराजे पुष्पदन्तगणाधीशेन–'हरिस्ते

साहस्रं कमलबलिमाधाय पदयोर्यदे कोने तस्मिन्निजमुदहरन्नेत्रकमलम् । गतो भक्त्युद्रेकः

परिणतिमसौ चक्रवपुषा त्रयाणां रक्षायै त्रिपुरहर जागर्ति जगताम् ॥' इति । अत एव

भक्त्युत्कर्षाप्तप्रसादाप्तसुदर्शनेन ॥
 
Digitized by Google