2023-02-23 21:27:05 by ambuda-bot
This page has not been fully proofread.
स्तुतिकुसुमाञ्जलिः ।
देवः सेवकभुक्तिमुक्तिघटनाभूर्भूर्भुवः स्वस्त्रयी-
निर्माणस्थितिसंहृतिप्रकटितक्रीडो मृडः पातु वः ॥ ५१ ॥
३ स्तोत्रम्]
४३
त्रातेति । एवंविधो मृहः मृडयति सुखयति जगनिःश्रेयसप्रदानेन मृडः श्रीशिवो वो
युष्मान् पातु । भवभयादित्यर्थः । किंभूतः । भोतिभृतां भवरोगभयधारिणां त्राता रक्षि-
ता । तथा चिदचितां चेतनाचेतनानां पतिः । तथा सतां स्वात्मनः शिवाभेदप्रथां वि-
दुषां शंसतां स्तुवतां क्लेशं मायावरणजं हन्ता । तथा भक्तिमतां वान्नः कायकर्मभिः
शिवकताध्यानं भक्तिस्तद्वतां मतामभिमतां स्वस्य समतां स्वसायुज्यं कर्ता । तथा अस
तामज्ञानां श्रीशिवशासनद्वेषिणामपकर्ता हन्ता । तथा देवः सेवकानां भक्तिप्रवाणां भु-
क्तिर्भोगसंहतिरूपा मुक्तिर्निःश्रेयसमपुनर्जन्मरूपं तयोर्या घटना संप्रदानं तस्या भूः स्था-
नम् । आरोपः । भूर्भूलोकश्च भुवो भुवोलोकश्च स्वः स्वर्लोकश्च तानि । एतदुपलक्ष-
णम् । तेन महोलोकप्रभृतीनामपि ग्रहणम् । तेषां या निर्माणस्थितिसंहृतयः सर्गस्थि-
तिसंहारास्ताभिः प्रकटिता क्रोडा येन सः ॥
कृष्णेन
त्रिजगत्प्रसिद्धविजयप्रख्यातिनालोचनं
भक्त्या वासवसूनुना कृतवता पादाब्जपूजाविधौ ।
यस्मादाप्तसुदर्शनेन निखिलं विश्वं विधेयीकृतं
कृष्णेनेव स धूर्जटिर्घटयतु श्रेयांसि भूयांसि नः ॥ १२ ॥
कृष्णेनेति । धूर्गङ्गा जटायां मुकुटे यस्य स धूर्जटि: परमेशो भूयांसि बहुतराणि
श्रेयांसि ऐहिकामुष्मिकानि शुभानि घटयतु । तत्संघटनां करोत्वित्यर्थः । स कः । यस्मात्
श्रीशिवभट्टारकात् आप्तसुदर्शनेन प्राप्तसुदर्शनाख्यचक्रेण [कृष्णेन] देवकीनन्दनेनेव
आप्तसुदर्शनेन लब्धशोभनदर्शनेन कृष्णेनार्जुनेन विश्वं जगत् विधेयीकृतं स्वायत्तीकृ
तम् । जितमित्यर्थ: । 'कृष्णस्तु केशवे व्यासे वायसे कोकिलेऽर्जुने' इति विश्वः । द्वाव-
पि विशिनष्टि-कृष्णेनार्जुनेन कथंभूतेन । त्रिजगति प्रसिद्धा विजय इति प्रख्यातिः प्रसि-
द्धिर्यस्य तेन । 'अर्जुनः फाल्गुनो जिष्णुः किरीटी श्वेतवाहनः । बीभत्सुर्विजयः कृष्णः
सव्यसाची धनंजयः ॥' इत्यर्जुननाम्नां प्रसिद्धेः । तथा श्रीशिवस्य पादाब्जपूजाविधौ
चरणकमलार्चनविधौ आलोचनं नित्यचिन्तनं कृतवता । तथा वासवसूनुना इन्द्रसु-
तेन । श्रीकृष्णेनापि कथंभूतेन । त्रिजगत्प्रसिद्ध विजयस्य जयशब्दस्य कंसचाणूरादीनां
जगद्विध्वंसकराणां विजयात् प्रख्यातिर्यस्य तेन । तथा वासवसूनुना वासवस्येन्द्रस्य
सूनुरनुजस्तेन । 'सूनुः पुत्रेऽनुजेऽपि इति विश्वः । पुनः किंभूतेन श्रीकृष्णेन ।
विभोः श्रीशिवस्य पादाब्जपूजाविधौ चरणकमलार्चन विधौ लोचनं कृतवता दत्तवता ।
धातूनामनेकार्थत्वात् । तथा चोक्तं महिम्नः स्तवराजे पुष्पदन्तगणाधीशेन–'हरिस्ते
साहस्रं कमलबलिमाधाय पदयोर्यदे कोने तस्मिन्निजमुदहरन्नेत्रकमलम् । गतो भक्त्युद्रेकः
परिणतिमसौ चक्रवपुषा त्रयाणां रक्षायै त्रिपुरहर जागर्ति जगताम् ॥' इति । अत एव
भक्त्युत्कर्षाप्तप्रसादातसुदर्शनेन ॥
Digitized by Google