This page has been fully proofread once and needs a second look.

४२
 
काव्यमाला ।
 
या मन्दाराख्यसुरपुष्पमालास्ताभ्यो गलन् पतन् यः किंजल्कोत्करस्तेन पिञ्जरा या

नखश्रेणी नखानां दशसंख्यनखानां श्रेणी तन्निभेन तद्व्याजेन यस्य विभोश्चरणौ पादयु-

गलमाश्रिता । वयमपि स्वामिशिरः स्थचन्द्रवद्विभोः प्रेमभागिनो भवाम इत्येतदर्थं श्रीशं-

भोश्चरणौ श्रितेत्यर्थः ॥
 

 
अर्केन्दुभौमबुधवाक्पतिकाव्यमन्दा

मन्दारकुन्दकुमुदैर्यमुदर्चयन्ति ।
 

तस्य प्रभोरघमलोष्मशमादमन्दा
 

मन्दाकिनीव मुदमर्पयतु स्तुतिर्वः ॥ १९ ॥
 

 
अर्केन्द्विति । तस्य प्रभोः परमेश्वरस्य स्तुतिः अघमलोष्मशमात् अघानां वाङ्मनः-

कायोपार्जितानां मलानां मायीयाणवकार्माणां य ऊष्मा तस्य शमान्मन्दाकिनी वियद्ग-

ङ्गेव मुदं प्रमोदं वो युष्मभ्यमर्पयतु ददातु । तस्य कस्येत्याह - अर्केन्द्विति । अर्काद्याः

सप्त प्ग्रहाः प्रसिद्धाः यं विभुं मन्दारकुन्दकुमुदैः मन्दाराख्यैः कुन्दपुष्पैः कुमुदपुष्पैश्च यं

देवमुदर्चयन्ति उच्चैः कृत्वा अर्चयन्ति पूजयन्ति । इदं वृत्तं प्राचीनादर्शेषु न दृश्यते त-

थापि व्याख्यातम् ॥
 

 
भस्मोद्धूलितमूर्तिरिन्दुधवलज्योतीरसोर्वीधर-

स्कन्धासक्ततुषारगौरवृषभारूढोऽस्तु भद्राय वः ।

देवो दुग्धमहाब्धिमध्यविकसत्सत्पुण्डरीकोपरि-

क्रीडद्वाबालमरालनिर्मलरुचिः कात्यायनीकामुकः ॥ ५० ॥
 

 
भस्मोद्धूलितेति । कात्यायनीकामुकः श्रीशंभुः । अत्रालंकारिकैः कात्यायनीकामुक

इत्यत्र विरुद्धमतिकृद्दुष्टत्वं यद्यपि व्याख्यातं तथापि भक्तिविषये न दोषः । वो गुयुष्माकं

भद्राय मङ्गलायास्तु । किंभूतः । भस्मना विभूत्या उद्धूलिता मूर्तिर्यस्य । तथा इन्दुवच्चन्द्र-

वद्धवलश्चासौ ज्योतीरसोर्वीधरः स्फटिकशैलस्तस्य स्कन्धः कायः । "स्कन्धः स्यान्नृ-

पतावंशे संपरायसमूहयोः। काये तरुप्रकाण्डे च भद्रादौ छन्दसो भिदि ॥' इति धान्तेषु

मेदिनिः ।" इति रायमुकुट्याम् । तत्रासक्तो यस्तुषारगौरो हिमधवलो वृषस्तत्रारूढः ।

पुनः किंभूतः । दुग्धमहाब्धिमध्ये विकसद्यत्पुण्डरीकं सिताम्भोजम् । 'पुण्डरीकं सिता-

म्भोजम्' इत्यमरः । तस्योपरि क्रीडन् यो बालमरालो हंसशावस्तद्वन्निर्मला

रुचिर्यस्य । अत्र कैलासशैलस्य क्षीराब्धिरुपमानम् । भस्मोद्धूलितमूर्तेर्विभोर्याबालमराल

उपमानम् ॥
 

 
त्राता भीतिभृतां पतिश्चिदचितां क्लेशं सतां शंसतां

हन्ता भक्तिमतां मतां स्वसमतां कर्तापकर्तासताम् ।
 
Digitized by Google