This page has been fully proofread once and needs a second look.

स्तुतिकुसुमाञ्जलिः ।
 
४१
 
३ स्तोत्रम्]
तम् । प्रेयः अतिशयेन प्रियम् । 'प्रियस्थिर-' इत्यादिसूत्रेण इंग्रईयसुन् । स क इत्याह-

यस्मिंस्तृतीयनेत्रे.. .. त्रिभुवनजयिनोऽपि तस्य श्रीशंभौ भमशक्तित्वात्
यस्मिन्नभ्ग्न्यधिष्ठाने नेत्रे प्राप्तकालः प्राप्तान्तसमयः स प्रसिद्धः कालो यमोऽपि शलभल-

घुतां शलभवत्पतंगवल्लघुतां लेभे । तत्र दग्ध इत्यर्थः । शलति शमं लभते वाग्नौ शलभः ।

तथा जाह्नवीयो गङ्गासंबन्धी ओघः प्रवाहोऽपि यस्य नेत्रामेग्नेर्महोनिह्नवे तेज:पिघाधाने न

प्रभवति न समर्थो भवति ॥
 

 
यः क्रोधाग्नेः समिधमकरोद्दर्पकं दर्पकन्द-

च्छेदाभिज्ञं व्यधित जगतां यः कृतान्तं कृतान्तम् ।

नेतुं यश्च प्रभवति मतिहाह्नासमस्तं समस्तं
 

निष्प्रत्यूहं प्रथयतु पथि त्रासदे वः स देवः ॥ १७ ॥

 
यः क्रोधाग्नेरिति । परात्परतरे स्थाने देवः परमेश्वरः अत्र लोके सिंहादिदुष्टसत्त्वभ-

यावृते परत्र च रविजकिकिंकराद्युत्पन्नभयावृते पथि वर्त्मनि निष्प्रत्यूहं विघ्नाभावं प्रथयतु

तनोतु । स क इत्याह - यः क्रोधाग्नेरिति । यो देवो निजस्य क्रोधाग्नेः समिधं काष्ठं

दर्पकं काममकरोत् । क्रोधाग्निना कामं ददाहेत्यर्थः । 'काष्ठं दार्विन्धनं त्वेध इध्ममेधः

समित्निस्त्रियाम्' इत्यमरः । तथा यो देवो जगतां लोकानां कृतोऽन्तो येन तं कृतान्तं

यमं दर्पकन्दच्छेदाभिज्ञं दर्पस्य कन्दो मूलं तस्य च्छेदमभिजानातीति तादृशं व्यधित

चकार । यममपि ददाहेत्यर्थः । यश्च विभुः समस्तं सर्वे मतिहाह्वासं विश्वस्य लोकस्य

शिवाद्भेदप्रथारूपो मतिहाह्वासस्तमस्तं विनाशं नयति दूरीकरोति । धीमतामित्यर्थः ॥

 
पायाद्वस्त्रिजगद्गुरुः स्मरहरः सोपग्रहाणां शिरः

श्यामाकामुकमत्सरेण चरणौ पङ्किक्तिर्ग्रहाणामिव ।

यस्य प्रह्वसुरासुरेश्वरशिरोमन्दारमालागल-

त्किंजल्कोत्करपिञ्जरोन्मुखनखश्रेणीनिभेनाश्रिता ॥ ४८ ॥

 
पायादिति । गृणात्युपदेशं शिवाभेदप्रथारूपं गुरुः । त्रिजगतो गुरुः स स्मरहरः स्म-

रारिवोंर्वो युष्मान्पायात् । स क इत्याह - सोपग्रहाणामित्यादि । सोपग्रहाणां उपग्रहै-

श्
चतुर्भी राहुकेतुध्ध्रुवागस्त्यैः सह वर्तन्ते ये ते सोपग्रहास्तेषां ग्रहाणां सप्तानामादित्या-

दीनां पङ्क्तिः । 'ग्रहा आदित्याद्याः सप्त । उपग्रहा राहाह्वाद्याश्चत्वारः' इति गर्गः । तदेवं

सोपग्रहग्रहपङ्क्तिरेकादशसंख्याका मिश्रीभूता श्रीशंभो: शिरःस्थत्वाञ्च्चन्द्रस्य अवशिष्टा

दशसंख्याकैव । अत्रैवोत्प्रेक्षापूर्वकमाह–सोपग्रहाणामित्यादि । शिरः श्यामाकामुक्रम-

त्सरेण शिरसि यः श्यामाकामुको रजनीशश्चन्द्रस्तस्य मत्सरेण परोत्कर्षासहनं मत्सर-

स्तेन अयं चन्द्रः कथं जगदीश्वरस्य शिरःस्थो वयं किकिं न प्रिया विभोरिति रोषेणावशि-

ष्टसोपग्रहपङ्क्तिः प्रहाह्वा भक्त्या नम्रा ये सुरासुरेश्वरा देवासुराधीशाश्च तेषां शिरांसि तेषु
 

 
Digitized by Google'