This page has not been fully proofread.

स्तुतिकुसुमाञ्जलिः ।
 
४१
 
३ स्तोत्रम्]
तम् । प्रेयः अतिशयेन प्रियम् । 'प्रियस्थिर-' इत्यादिसूत्रेण इंग्रसुन् । स क इत्याह-
यस्मिंस्तृतीयनेत्रे.. .. त्रिभुवनजयिनोऽपि तस्य श्रीशंभौ भमशक्तित्वात् ।
यस्मिन्नभ्यधिष्ठाने नेत्रे प्राप्तकालः प्राप्तान्तसमयः स प्रसिद्धः कालो यमोऽपि शलभल-
घुतां शलभवत्पतंगवल्लघुतां लेभे । तत्र दग्ध इत्यर्थः । शलति शमं लभते वाग्नौ शलभः ।
तथा जाह्नवीयो गङ्गासंबन्धी ओघः प्रवाहोऽपि यस्य नेत्रामेर्महोनिहवे तेज:पिघाने न
प्रभवति न समर्थो भवति ॥
 
यः क्रोधानेः समिधमकरोद्दपकं दर्पकन्द-
च्छेदाभिज्ञं व्यधित जगतां यः कृतान्तं कृतान्तम् ।
नेतुं यश्च प्रभवति मतिहासमस्तं समस्तं
 
निष्प्रत्यूहं प्रथयतु पथि त्रासदे वः स देवः ॥ १७ ॥
यः क्रोधाग्नेरिति । परात्परतरे स्थाने देवः परमेश्वरः अत्र लोके सिंहादिदुष्टसत्त्वभ-
यावृते परत्र च रविजकिकरायुत्पन्नभयावृते पथि वर्त्मनि निष्प्रत्यूहं विघ्नाभावं प्रथयतु
तनोतु । स क इत्याह - यः क्रोधानेरिति । यो देवो निजस्य क्रोधानेः समिधं काष्ठं
दर्पकं काममकरोत् । क्रोधाग्निना कामं ददाहेत्यर्थः । 'काष्ठं दार्विन्धनं त्वेध इध्ममेधः
समित्नियाम्' इत्यमरः । तथा यो देवो जगतां लोकानां कृतोऽन्तो येन तं कृतान्तं
यमं दर्पकन्दच्छेदाभिज्ञं दर्पस्य कन्दो मूलं तस्य च्छेदमभिजानातीति तादृशं व्यधित
चकार । यममपि ददाहेत्यर्थः । यश्च विभुः समस्तं सर्वे मतिहासं विश्वस्य लोकस्य
शिवाद्भेदप्रथारूपो मतिहासस्तमस्तं विनाशं नयति दूरीकरोति । धीमतामित्यर्थः ॥
पायाद्वस्त्रिजगद्गुरुः स्मरहरः सोपग्रहाणां शिरः
श्यामाकामुकमत्सरेण चरणौ पङ्किहाणामिव ।
यस्य प्रह्वसुरासुरेश्वरशिरोमन्दारमालागल-
त्किंजल्कोत्करपिञ्जरोन्मुखनखश्रेणीनिभेनाश्रिता ॥ ४८ ॥
पायादिति । गृणात्युपदेशं शिवाभेदप्रथारूपं गुरुः । त्रिजगतो गुरुः स स्मरहरः स्म-
रारिवों युष्मान्पायात् । स क इत्याह - सोपग्रहाणामित्यादि । सोपग्रहाणां उपग्रहै-
चतुर्भी राहुकेतुध्ध्रुवागस्त्यैः सह वर्तन्ते ये ते सोपग्रहास्तेषां ग्रहाणां सप्तानामादित्या-
दीनां पतिः । 'ग्रहा आदित्याद्याः सप्त । उपग्रहा राहायाश्चत्वारः' इति गर्गः । तदेवं
सोपग्रहग्रहपतिरेकादशसंख्याका मिश्रीभूता श्रीशंभो: शिरःस्थत्वाञ्च्चन्द्रस्य अवशिष्टा
दशसंख्याकैव । अत्रैवोत्प्रेक्षापूर्वकमाह–सोपग्रहाणामित्यादि । शिरः श्यामाकामुक्रम-
त्सरेण शिरसि यः श्यामाकामुको रजनीशश्चन्द्रस्तस्य मत्सरेण परोत्कर्षासहनं मत्सर-
स्तेन अयं चन्द्रः कथं जगदीश्वरस्य शिरःस्थो वयं कि न प्रिया विभोरिति रोषेणावशि-
ष्टसोपग्रहपङ्क्तिः प्रहा भक्त्या नम्रा ये सुरासुरेश्वरा देवासुराधीशाश्च तेषां शिरांसि तेषु
 

 
Digitized by Google'