This page has been fully proofread once and needs a second look.

३ स्तोत्रम्]
 
स्तुतिकुसुमाञ्जलिः ।
 
यस्य क्षितिः शिरसि सौमनसीव शेषा

शे[^१]षाहिरङ्गदपदे स चकास्ति यस्य ।

तस्य प्रभोरमृतनिर्झरनिर्विशेषा-
३९
 

शेषाणि हन्तु दुरितानि सरस्वती वः ॥ ४२ ॥
 
यस्थ

 
यस्व
क्षितिरिति । अमृतनिर्झरनिर्विशेषा सुधाप्रवाहतुल्या । आपन्नाश्वसनेनेत्यर्थः ।

तस्य प्रमोर्महेश्वरस्य सरस्वती वाणी । 'गीर्वाग्वाणी सरस्वती' इत्यमरः । वो युष्माक

मशेषाणि सर्वाणि दुरितानि वाङ्मनः कायोपार्जितानि हन्तु नाशयतु । तस्य कस्ये-

त्याह—यस्येत्यादि।,यस्य विभोः श्रीहाटकेश्वरस्य शिरसि मूर्धनि सौमनसी पुष्पसंबन्धिनी

शेषा मालेव । 'उपयुक्तेतरच्छेषं त्रिषु ना नागसीरिणोः । प्रसादान्निजनिर्माल्यदाने स्त्री '

इति मङ्गःखः । यस्य शिरसि पुष्पमालेव क्षितिः शोभते । तथा स प्रसिद्धः शेषाहिः शेष-

नागो यस्य विभोरङ्गदपदे केयूरस्थाने चकास्ति शोभते ॥

 
[^२]
श्रीमानकल्पत न कल्पतरुर्यदाप्त्यै
 

तृष्णा रसायनरसाय न यं समेत्य ।

लभ्यो न यो गहनयोगहवैः स वोऽघ-

मप्राकृतो हरकृतो हरतु प्रसादः ॥ ४३ ॥
 

 

 
श्रीमानिति । अप्राकृतो न प्राकृतो गौणः । सर्वथा मुख्यः प्रसादोऽनुग्रहः हरेण

श्रीशंभुना कृतो वो युष्माकमधंघं त्रिविधं पापं हरतु निवारयतु । स क इत्याह - यस्या-

नुग्रहस्याप्त्यै लाभाय श्रीमान् लक्ष्मीवान् शोभायुक्तश्च कल्पतरुर्देवद्रुमोऽपि नाकल्पत

समर्थो नासीत् । तस्य सर्वपुरुषार्थमुख्यनिः
श्रेयसदानासमर्थत्वादित्यर्थः । तथा यं श्री-

शिवप्रसादं समेत्य प्राप्य रसायनरसाय जराव्याधिहरौषधायापि तृष्णा लोभो नास्ति ।

'रसायनं विडतेङ्गे स्याजराव्याधिजिदौषधे' इति विश्वः । अत्रापि प्रागुक्तो हेतुः । तथा

गहनः । अष्टाङ्गयोगस्यातिकष्टसाध्यत्वात् । योगः अष्टाङ्गो यमनियमादिकः । हवा यज्ञाश्च

कृच्छ्रसाध्याः । तैरपि यः श्रीशंभुप्रसादो न लभ्यः ॥

 
मुक्तिर्हि नाम परमः पुरुषार्थ एक-

स्तामन्तरायमवयन्ति यदन्तरज्ञाः ।

कि भूयसा भवतु सैव सुधामयूख-

लेखाशिखाभरणभक्तिरभङ्गुरा वः ॥ ४४ ॥
 

 
मुक्तिहिं नामेति । भूयसा बहुनोक्तेन किं भवति । न किंचिदित्यर्थः। सैव सुधामयू-

 
[^
]. 'मालाहिरङ्गद' इति क-पाठ:.
[^
]. 'अर्केन्दुभौम-' इत्याद्यप्ग्रे वर्तमानः क्षेपक

श्लोकः खपुस्तके 'श्रीमान्-' इत्यादिश्लोकात्पूर्वं वर्तते.
 
Digitized by Google