This page has not been fully proofread.

३ स्तोत्रम्]
 
स्तुतिकुसुमाञ्जलिः ।
 
यस्य क्षितिः शिरसि सौमनसीव शेषा
शेषाहिरङ्गदपदे स चकास्ति यस्य ।
तस्य प्रभोरमृतनिर्झरनिर्विशेषा-
३९
 
शेषाणि हन्तु दुरितानि सरस्वती वः ॥ ४२ ॥
 
यस्थ क्षितिरिति । अमृतनिर्झरनिर्विशेषा सुधाप्रवाहतुल्या । आपन्नाश्वसनेनेत्यर्थः ।
तस्य प्रमोमहेश्वरस्य सरस्वती वाणी । 'गीर्वाग्वाणी सरस्वती इत्यमरः । वो युष्माक
मशेषाणि सर्वाणि दुरितानि वामनः कायोपार्जितानि हन्तु नाशयतु । तस्य कस्ये-
त्याह—यस्येत्यादि।,यस्य विभोः श्रीहाटकेश्वरस्य शिरसि मूर्धनि सौमनसी पुष्पसंबन्धिनी
शेषा मालेव । 'उपयुक्तेतरच्छेषं त्रिषु ना नागसीरिणोः । प्रसादान्निजनिर्माल्यदाने स्त्री '
इति मङ्गः । यस्य शिरसि पुष्पमालेव क्षितिः शोभते । तथा स प्रसिद्धः शेषाहिः शेष-
नागो यस्य विभोरङ्गदपदे केयूरस्थाने चकास्ति शोभते ॥
श्रीमानकल्पत न कल्पतरुर्यदायै
 
तृष्णा रसायनरसाय न यं समेत्य ।
लभ्यो न यो गहनयोगहवैः स वोऽघ-
मप्राकृतो हरकृतो हरतु प्रसादः ॥ ४३ ॥
 

 
श्रीमानिति । अप्राकृतो न प्राकृतो गौणः । सर्वथा मुख्यः प्रसादोऽनुग्रहः हरेण
श्रीशंभुना कृतो वो युष्माकमधं त्रिविधं पापं हरतु निवारयतु । स क इत्याह - यस्या-
नुग्रहस्याप्त्यै लाभाय श्रीमान् लक्ष्मीवान् शोभायुक्तश्च कल्पतरुर्देवद्रुमोऽपि नाकल्पत
समर्थो नासीत् । तस्य सर्वपुरुषार्थमुख्यनिः श्रेयसदानासमर्थत्वादित्यर्थः । तथा यं श्री-
शिवप्रसादं समेत्य प्राप्य रसायनरसाय जराव्याधिहरौषधायापि तृष्णा लोभो नास्ति ।
'रसायनं विडते स्याजराव्याधिजिदौषधे' इति विश्वः । अत्रापि प्रागुक्तो हेतुः । तथा
गहनः । अष्टाङ्गयोगस्यातिकष्टसाध्यत्वात् । योगः अष्टाङ्गो यमनियमादिकः । हवा यज्ञाश्च
कृच्छ्रसाध्याः । तैरपि यः श्रीशंभुप्रसादो न लभ्यः ॥
मुक्तिर्हि नाम परमः पुरुषार्थ एक-
स्तामन्तरायमवयन्ति यदन्तरज्ञाः ।
कि भूयसा भवतु सैव सुधामयूख-
लेखाशिखाभरणभक्तिरभङ्गुरा वः ॥ ४४ ॥
 
मुक्तिहिं नामेति । भूयसा बहुनोक्तेन किं भवति । न किंचिदित्यर्थः। सैव सुधामयू-
१. 'मालाहिरङ्गद' इति क-पाठ:. २. 'अर्केन्दुभौम-' इत्याद्यप्रे वर्तमानः क्षेपक
श्लोकः खपुस्तके 'श्रीमान्-' इत्यादिश्लोकात्पूर्व वर्तते.
 
Digitized by Google