This page has been fully proofread once and needs a second look.

३८
 
काव्यमाला ।
 
यामाश्रित इति । ताः शर्वस्य शिवस्य दृशो नेत्राणि वो युष्माकं शिवमात्यन्तिक-

दुःखनिवृत्तितिं पुष्णन्ति शिवपुषः तादृशो भवन्तु । ता का इत्याह - यां दक्षिणदृशं रम-

णीयधामा रम्यतेजा अम्बरमणिर्भास्वानाश्रितः । या च दृग्ललाटगोचरा न अलसा

अनलसा अमन्दा । प्रौढैवेत्यर्थः । तादृशी कामान्तकौ मदनयमौ अनलसात् अभ्यधी-

नौ व्यधात् । 'तदधीने सातिः कात्स्येंर्त्स्न्ये' इति सातिप्रत्ययः । यापि वामदृक इन्दुसंभ-

वसुधावसुधा चान्द्रीसुधाभूमिः । आरोपः ॥
 

 
पुष्णातु वः प्रथमसंगमभीरुगौरी-

विस्त्रम्भणप्रणयभङ्गभयाकुलस्य ।

तत्कालकार्यकरदर्पकदेहदाह-

जातानुतापमुरगाभरणस्य चेतः ॥ ४० ॥
 

 
पुष्णातु व इति । उरगो वासुकिनाग आभरणं कण्ठे हारस्थाने यस्य सः । तस्यो-

रगाभरणस्य श्रीशिवस्य चेतो मनः तत्कालेत्यादिविशिष्टं वो युष्मान् श्रीशिवभक्तिर-

सोत्कर्षवितरणेन पुष्णातु वर्धयतु । तत्काले प्रथमगौरीसङ्गसमये कार्ये परस्परप्रेमातिस-
श-
यरूपं करोति तादृशो दर्पकः कामस्तस्य देहदाहेन जात उत्पन्नोऽनुतापः पश्चात्तापो

यस्य तत् । अत्र हेतुमाह - किंभूतस्य शिवस्य । प्रथमसंगमे भीता नवोढात्वात् या

गौरी पार्वती तस्या विसम्भणार्थमाश्वासनार्थं यः प्रणयो याच्याञा तद्भङ्गेन यद्भयं

तेनाकुलस्य ॥
 

 
जूटे कपालशकलानि कलानिधिश्च
 

हस्ते सुधाम्बु सरलं गरलं गले च ।

शक्रादिभिश्च नमनं गमनं गवा च
 

[^१]
यस्यास्तु दुर्गतिहरः स हरः सदा वः ॥ ४१ ॥
 
·
 

 
जूट इति । स हरः श्रीशिवो वो युष्माकं दुर्गतिं भवामयोत्थां हरतीति तादृशो

भवतु । स क इत्याह – जूट इति । यस्य महेशस्य जूटे कपर्दे कपालशकलानि महाप्रल-

यादौ हारितब्रह्मादिशिरसां कपालखण्डानि भवन्ति । तथा कलानिधिश्चन्द्रश्च यस्य

जूटे भवति । तथा यस्य विभोर्हस्ते सुधाम्बु अमृतोदकं भवति । 'देवं सुधाकलशसो-

म-' इति ध्यानोक्तेः । तथा सरलमुदारम् । 'सरल: पूतिकाष्ठे स्यादुदारावक्रयोरपि'

इति विश्वः । उदारं गरलं कालकूटाख्यं विषं गले कण्ठे यस्य । तथा शकाक्रादिभिर्दे-

वैः । विहितमिति शेषः । नमनं नतिः । गवा वृषभेण गमनं च यस्य । 'लक्ष्यदृष्टया

स्त्रियां पुंसि गौः' इत्यमरः । गोशब्दः पुंसि च लक्ष्ये दृश्यत इत्यर्थः ॥
 

 
[^
]. 'यस्यास्ति' इति क-पाठ::
 
Digitized by Google