2023-02-23 21:27:04 by ambuda-bot
This page has not been fully proofread.
३८
काव्यमाला ।
यामाश्रित इति । ताः शर्वस्य शिवस्य दृशो नेत्राणि वो युष्माकं शिवमात्यन्तिक-
दुःखनिवृत्ति पुष्णन्ति शिवपुषः तादृशो भवन्तु । ता का इत्याह - यां दक्षिणदृशं रम-
णीयधामा रम्यतेजा अम्बरमणिर्भास्वानाश्रितः । या च दृग्ललाटगोचरा न अलसा
अनलसा अमन्दा । प्रौढैवेत्यर्थः । तादृशी कामान्तकौ मदनयमौ अनलसात् अभ्यधी-
नौ व्यधात् । 'तदधीने सातिः कात्स्यें' इति सातिप्रत्ययः । यापि वामहक इन्दुसंभ-
वसुधावसुधा चान्द्रीसुधाभूमिः । आरोपः ॥
पुष्णातु वः प्रथमसंगमभीरुगौरी-
विस्त्रम्भणप्रणयभङ्गभयाकुलस्य ।
तत्कालकार्यकरदर्पकदेहदाह-
जातानुतापमुरगाभरणस्य चेतः ॥ ४० ॥
पुष्णातु व इति । उरगो वासुकिनाग आभरणं कण्ठे हारस्थाने यस्य सः । तस्यो-
रगाभरणस्य श्रीशिवस्य चेतो मनः तत्कालेत्यादिविशिष्टं वो युष्मान् श्रीशिवभक्तिर-
सोत्कर्षवितरणेन पुष्णातु वर्धयतु । तत्काले प्रथमगौरीसङ्गसमये कार्ये परस्परप्रेमातिस-
यरूपं करोति तादृशो दर्पकः कामस्तस्य देहदाहेन जात उत्पन्नोऽनुतापः पश्चात्तापो
यस्य तत् । अत्र हेतुमाह - किंभूतस्य शिवस्य । प्रथमसंगमे भीता नवोढात्वात् या
गौरी पार्वती तस्या विसम्भणार्थमाश्वासनार्थ यः प्रणयो याच्या तद्भङ्गेन यद्भयं
तेनाकुलस्य ॥
जूटे कपालशकलानि कलानिधिश्च
हस्ते सुधाम्बु सरलं गरलं गले च ।
शक्रादिभिश्च नमनं गमनं गवा च
यस्यास्तु दुर्गतिहरः स हरः सदा वः ॥ ४१ ॥
·
जूट इति । स हरः श्रीशिवो वो युष्माकं दुर्गतिं भवामयोत्थां हरतीति तादृशो
भवतु । स क इत्याह – जूट इति । यस्य महेशस्य जूटे कपर्दे कपालशकलानि महाप्रल-
यादौ हारितब्रह्मादिशिरसां कपालखण्डानि भवन्ति । तथा कलानिधिश्चन्द्रश्च यस्य
जूटे भवति । तथा यस्य विभोर्हस्ते सुधाम्बु अमृतोदकं भवति । 'देवं सुधाकलशसो-
म-' इति ध्यानोक्तेः । तथा सरलमुदारम् । 'सरल: पूतिकाष्ठे स्यादुदारावक्रयोरपि'
इति विश्वः । उदारं गरलं कालकूटाख्यं विषं गले कण्ठे यस्य । तथा शकादिभिर्दे-
वैः । विहितमिति शेषः । नमनं नतिः । गवा वृषभेण गमनं च यस्य । 'लक्ष्यदृष्टया
स्त्रियां पुंसि गौः' इत्यमरः । गोशब्दः पुंसि च लक्ष्ये दृश्यत इत्यर्थः ॥
१. 'यस्यास्ति' इति क-पाठ::
Digitized by Google