This page has been fully proofread once and needs a second look.

३६
 
काव्यमाला ।
 
या राजहंसेति । सा श्रीशंभोर्दृक् । जातावेकवचनम् । नेत्रत्रयीत्यर्थः । सा वो युष्माकं

अभीष्टफलपाकं करोतीत्यभीष्टफलपाककृत् अस्तु । केव । द्यौरिव आकाश इव । 'द्व्यौदिवौ

द्वे स्त्रियामभ्रम्' इत्यमरः । केषु । प्रावृडन्तशरदा दिदिनेषु वर्षान्तशरदारम्भरूपऋतुसंधि-

दिनेषु । उभे विशिनष्टि - सा दृक् का । या राजेत्यादि । राजा चन्द्रः । 'राजानौ नृप-

शीतांशू' इति मङ्गःखः । हंसः सूर्यः । 'खगयोगिभिदोर्हंसो निर्लोभनृपसूर्ययोः' इति मङ्गः ।
खः ।
शिखी अग्निः । 'वृक्षोऽग्निः कुक्कुटो बर्ही शिखिनः' इति मङ्गःखः । तैस्त्रिभिः सम्यग्भृता

कान्तिर्यस्याः सा । सद्यः प्रणत्यन्त एव तिरोहितं घनं दृढमावरणमविद्यारूपमायावरणं

यया सा । भक्तेभ्य इति शेषः । कृपया वैशद्यमेति । अथ च वर्षान्तशरदादिऋतुसं-

बन्धिद्यौरपि राजहंसैः श्वेतगरुत्पक्षिभिः तथा शिखिभिर्मयूरैश्च संभृता उपचिता का

न्तिर्यस्याः सा । वर्षान्तसद्भावात्कतिपये राजहंसा आगच्छन्ति, प्रावृषोऽप्यन्तिमकति-

पयदिनसद्भावात्कतिचिन्मयूराश्च तत्र ऋतुसंधौ भवन्ति । तथा ऋतुसंधिद्यौरपि कीदृशी ।

तिरोहितं दूरीकृतं घनानां मेघानामावरणं यया सा । प्रसादं नैर्मल्यं च सद्यस्तत्क्षणमेव

एति प्राप्नोति । अभीष्टफलानां शाल्यादीनां पाकं करोति तादृक्च । शब्दश्लेषः ॥
अन्तर्घृ

 
अन्तर्धृ
ताहिमकरज्वलनोदितेन्दुः

स्वःसिन्धुसङ्गसुभगा परमेश्वरस्य ।

औदन्वतीव तनुरस्तु गजाश्वरत्न-

श्रीलाभकृत्सुमनसाममृताय दृग्वः ॥ ३६ ॥
अन्तर्घृ

 
अन्तर्धृ
ताहिमकरेति । परमेश्वरस्य श्रीशिवभट्टारकस्य दृक् ।जातावेकवचनम् ।

श्रीशंभोर्नेत्रत्रयी वो युष्माकममृताय निःश्रेयसाय अस्तु । केव । औदन्वती उदन्वत

इयमौदन्वती समुद्रस्य तनुरिव । द्वे अपि विशिष्टि - किंभूता दृक् नेत्रत्रयी । अन्त-

र्
धृतेत्यादि । अन्तर्घृधृताः अहिमकर उष्णांशुः सूर्यः ज्वलनोऽग्निः उदितेन्दुः । बालेन्दु-

रित्यर्थः । ते यया । तथा स्वःसिन्धोर्वियद्गङ्गाया यः सङ्गस्तेन सुभगा रम्या । तथा

गजाश्वेत्यादि । गजानां गजोत्तमानां अश्वानां वनायुजादीनां रत्नानां पद्मरागादीनां

श्रियो लक्ष्म्या लाभप्राप्तिस्तं करोति । केषाम् । सुमनसां पण्डितानाम् । 'सुमनाः स्त्री

पुष्पजात्योर्देवप ण्डितयोः पुमान्' इति मङ्गःखः । श्रीशंभुदृगंशांशप्राप्त्या कृतिनां गजाश्वा-

दिसकलसंपत्प्राप्तिरित्यर्थः । सामुद्री तनुरपि किंभूता । अन्तर्घृतेत्यादि । अन्तर्घृधृताः अहयः

सर्पाः मकरा जलप्राणिनः ज्वलनोऽग्निर्वाडवः उदितेन्दुः पूर्णेन्दुर्यया । उदितेन्दुरिति भिन्नं

पदं वा । उदित उत्पन्न इन्दुर्यस्याः सा तथा स्वःसिन्धोर्गङ्गाया यः सङ्गो योगस्तैन

सुभगा रम्या । तथा गजाश्वेत्यादि । गजः स्वर्गज ऐरावणः अश्व उच्चैःश्रवाः रत्नं

कौस्तुभः श्रीः हरिप्रिया तेषां लाभं करोतीति तादृक् । केषाम् । सुमनसां देवानामिन्द्रा-

दीनाम् ॥
 
यत्रागि

 
यत्राग्नि
रीप्सति कणं न विवृत्य जिह्वां

नैति प्रतिक्षपमपेतवसुस्तमर्कः ।
 
Digitized by Google