2023-02-23 21:27:03 by ambuda-bot
This page has not been fully proofread.
३६
काव्यमाला ।
या राजहंसेति । सा श्रीशंभोर्दृक् । जातावेकवचनम् । नेत्रत्रयीत्यर्थः । सा वो युष्माकं
अभीष्टफलपाकं करोतीत्यभीष्टफलपाककृत् अस्तु । केव । द्यौरिव आकाश इव । 'यौदिवौ
द्वे स्त्रियामभ्रम्' इत्यमरः । केषु । प्रावृडन्तशरदा दिदिनेषु वर्षान्तशरदारम्भरूपऋतुसंधि-
दिनेषु । उभे विशिनष्टि - सा दृक् का । या राजेत्यादि । राजा चन्द्रः । 'राजानौ नृप-
शीतांशू' इति मङ्गः । हंसः सूर्यः । 'खगयोगिभिदोर्हसो निर्लोभनृपसूर्ययोः' इति मङ्गः ।
शिखी अग्निः । 'वृक्षोऽग्निः कुक्कुटो बर्ही शिखिनः' इति मङ्गः । तैस्त्रिभिः सम्यग्भृता
कान्तिर्यस्याः सा । सद्यः प्रणत्यन्त एव तिरोहितं घनं दृढमावरणमविद्यारूपमायावरणं
यया सा । भक्तेभ्य इति शेषः । कृपया वैशद्यमेति । अथ च वर्षान्तशरदादिऋतुसं-
बन्धियौरपि राजहंसैः श्वेतगरुत्पक्षिभिः तथा शिखिभिर्मयूरैश्च संभृता उपचिता का
न्तिर्यस्याः सा । वर्षान्तसद्भावात्कतिपये राजहंसा आगच्छन्ति, प्रावृषोऽप्यन्तिमकति-
पयदिनसद्भावात्कतिचिन्मयूराश्च तत्र ऋतुसंधौ भवन्ति । तथा ऋतुसंधियौरपि कीदृशी ।
तिरोहितं दूरीकृतं घनानां मेघानामावरणं यया सा । प्रसादं नैर्मल्यं च सद्यस्तत्क्षणमेव
एति प्राप्नोति । अभीष्टफलानां शाल्यादीनां पाकं करोति तादृक्च । शब्दश्लेषः ॥
अन्तर्घृताहिमकरज्वलनोदितेन्दुः
स्वःसिन्धुसङ्गसुभगा परमेश्वरस्य ।
औदन्वतीव तनुरस्तु गजाश्वरत्न-
श्रीलाभकृत्सुमनसाममृताय दृग्वः ॥ ३६ ॥
अन्तर्घृताहिमकरेति । परमेश्वरस्य श्रीशिवभट्टारकस्य दृक् ।जातावेकवचनम् ।
श्रीशंभोर्नेत्रत्रयी वो युष्माकममृताय निःश्रेयसाय अस्तु । केव । औदन्वती उदन्वत
इयमौदन्वती समुद्रस्य तनुरिव । द्वे अपि विशिष्टि - किंभूता दृक् नेत्रत्रयी । अन्त-
धृतेत्यादि । अन्तर्घृताः अहिमकर उष्णांशुः सूर्यः ज्वलनोऽग्निः उदितेन्दुः । बालेन्दु-
रित्यर्थः । ते यया । तथा स्वःसिन्धोर्वियद्गङ्गाया यः सङ्गस्तेन सुभगा रम्या । तथा
गजाश्वेत्यादि । गजानां गजोत्तमानां अश्वानां वनायुजादीनां रत्नानां पद्मरागादीनां
श्रियो लक्ष्म्या लाभप्राप्तिस्तं करोति । केषाम् । सुमनसां पण्डितानाम् । 'सुमनाः स्त्री
पुष्पजात्योर्देवप ण्डितयोः पुमान्' इति मङ्गः । श्रीशंभुदृगंशांशप्राप्त्या कृतिनां गजाश्वा-
दिसकलसंपत्प्राप्तिरित्यर्थः । सामुद्री तनुरपि किंभूता । अन्तर्घृतेत्यादि । अन्तर्घृताः अहयः
सर्पाः मकरा जलप्राणिनः ज्वलनोऽग्निर्वाडवः उदितेन्दुः पूर्णेन्दुर्यया । उदितेन्दुरिति भिन्नं
पदं वा । उदित उत्पन्न इन्दुर्यस्याः सा तथा स्वःसिन्धोर्गङ्गाया यः सङ्गो योगस्तैन
सुभगा रम्या । तथा गजाश्वेत्यादि । गजः स्वर्गज ऐरावणः अश्व उच्चैःश्रवाः रत्नं
कौस्तुभः श्रीः हरिप्रिया तेषां लाभं करोतीति तादृक् । केषाम् । सुमनसां देवानामिन्द्रा-
दीनाम् ॥
यत्रागिरीप्सति कणं न विवृत्य जिह्वां
नैति प्रतिक्षपमपेतवसुस्तमर्कः ।
Digitized by Google