This page has not been fully proofread.

३ स्तोत्रम् ]
 
स्तुतिकुसुमाञ्जलिः
 
षसमये नगेन्द्रसुतायाः पार्वत्या आलिङ्गनवशालग्नो यः कुचाप्रकस्तूरीमकरिकायाः कस्तू-
रोपवल्लयाः किणश्चिहपर्यायो यस्य तत् । कस्तूरीमकरिकाकिणस्य इन्द्रनीलमणिप्रभया
निडवो जात इत्यर्थः ॥
 
युष्माकमस्तु नवनीलसरोजदाम-
श्यामद्युतिः मुमतये शितिकण्ठकण्ठः ।
यः केतकीधवलवासुकिभोगयोगा-
द्वाङ्गौघभिन्नगगनाङ्गनभङ्गिमेति ॥ ३३ ॥
 
युष्माकमिति । नवं यन्नीलसरोजं नीलोत्पलं तस्य दाम माल्यं तद्वत् श्यामा युति-
र्यस्य स शितिकण्ठकण्ठः श्रीशंभुगलो युष्माकं सुमतये शोभना चासी मतिः शिवैकता-
नेन या मतिः तस्यै अस्तु । स क इत्याह –यः कण्ठः केतकीधवलः केतकीनामा
श्वेतः सुगन्धः पुष्पविशेषः तद्ब्रद्धवलो यो वासुकिभोगः हारीकृतवासुकि फणस्तेन यो
योगस्तस्मात् गाङ्गौघेन गङ्गाजलप्रवाहेण भिन्नं भिन्नवर्ण शारीकृतं गगन मेवाङ्गनं तस्य
भङ्गिः शोभा तामेति प्राप्नोति । श्रीशंभुगलस्य गगनाङ्गनमुपमानम् । वासुकिभोगस्य
गङ्गाजलप्रवाह उपमानम् ॥
 
क्षीरार्णवस्य चरणाब्जतले निवास-

 
मासेदुषस्तनयमप्रतिमप्रसादः ।
यो मूर्ध्नि लालयति बालमसौ दयाब्धि-
देवस्तनोतु मुदमौश्रितवडभो वः ॥ ३४ ॥
 
क्षीरार्णवस्येति । स परमेशो दयाब्धिः कृपामृतसमुद्रः आश्रितवल्लभः आश्रिता
वल्लभाः प्रिया यस्य शरणागतत्राता वो युष्माकं मुदं परमानन्दं तनोतु विस्तारयतु । स
क इत्याह - यः परमेश्वरः अप्रतिमप्रसादः अनुपमानुग्रहश्चरणान्जतले स्वकीयपादप-
द्मतले निवासं स्थानमासेदुषः प्राप्नुवतः क्षीरार्णवस्य भृत्यस्येव पादसंवाहनं कृतवतस्त-
नयं स्वोदरोत्पन्नं बालम् । बालेन्दुमित्यर्थः । तं मूर्ध्नि लालयति कृपया संरक्षति । अत
एवास्याश्रितवत्सलता सुप्रसिद्धैवेत्यर्थः ॥
 
या राजहंसशिखिसंभृतकान्तिरेति
सद्यस्तिरोहितघनावरणा प्रसादम् ।
सा प्रावृडन्तशरदादिदिनेष्विव द्यौः
 
शंभोरभीष्टफलपाककृदस्तु दृग्वः ॥ ३५ ॥
 
१. 'आश्रितवत्सलो' इति क-पाठः.
 
-
 
Digitized by Google