This page has been fully proofread once and needs a second look.

३४
 
काव्यमाला ।
 
ताम्रेऽधरे च हसितं सितमदुद्रुतेयं
 

विच्छित्तिरिन्दुशिरसः कुशलं क्रियाद्वः ॥ ३० ॥

 
उत्तप्तेति । एषा इन्दुशिरसश्चन्द्रमौलेरद्भुता आश्चर्यकारिणी विच्छित्तिः शोभा । एक-

स्मिन्नेकवर्णे वस्तुन्यन्यवर्णमेलनेन विच्छित्तिर्भवति । सेयं विच्छित्तिर्वः कुशलं भवाब्ध्यु-

त्तरणरूपं क्रियात् । एषा केत्याह-कलापे कलापो जटाकटप्रं तत्र । किंभूते । उत्त

प्
तहेमरुचि उत्तप्तं पावकोत्तीर्णं यद्धेम कनकं तद्वद्रुग् दीप्तिर्यस्य तादृशे । रुच्शब्दः ।

'स्युः प्रभा रुग्रुचिस्त्विङ्भा' इत्यमरः । तत्र चन्द्रकला चान्द्रीकला । अत्र पीतवर्णे

जटाकलापे श्वेतवर्णेन्दुलेखासंघटनेन विच्छित्तिः । एवमप्ग्रेऽपि । तथा बालप्रवालवत्

बालविद्रुमवद्रुचिरं तादृशि रक्ते करे पाणीणौ कपालं धवलम् । तथा ताम्रेऽधरे अधरोष्ठे

सितं धवलं च हसितमीषद्धासः ॥
 

 
श्रेयः प्रयच्छतु परं सुविशुद्धवर्णा

पूर्णाभिलाषविबुधाधिपवन्दनीया ।

पुण्या कविप्रवरवागिव बालचन्द्र-

चूडामणेश्वरणरेणुकणावली वः ॥ ३१ ॥
 

 
श्रेयः प्रयच्छत्विति । बालचन्द्रचूडामणेर्बालेन्दुशिरोमणे: श्रीशिवभट्टारकस्य पादपद्म-

रजःकणावली वो भवतां परं श्रेयो निःश्रेयसरूपं प्रयच्छतु ददातु । केव। कविप्रवरवा -

गिव । 'कत्रवृ वर्णे' । कवते वर्णयति वर्णनीयमिति । महाकविवागिव । उभे अपि

विशिनष्टि – सुविशुद्धेत्यादि । चरणरजःकणावली किंभूता । सुष्नुरु विशुद्धो वर्णः अति-

धवलो यस्याः सा । तथा पूर्णाभिलाषैः पूर्णमनोरथैर्विबुधाधिपैरिन्द्रादिदेवैर्विपश्चिद्वरैर्वा

वन्दनीया प्रणमनीया । तया पुण्या पातक्रिकिनोऽपि प्रणतान्पवित्रीकुर्वती । महाकविवा-

गपि सुविशुद्धा वर्णनीयरसोपयोग्या वर्णा यस्याः सा । तथा विबुधाधिपैः पण्डितप्रवरै-

र्
वन्दनीया स्तुत्या । 'विबुधौ कविगीर्वाणीणौ' इति कोषःशः । तथा पुण्या मनोज्ञा हृया ।
द्या ।
'पुण्यं पूते मनोज्ञे च' इति मङ्गःखः
 

 
हारीकृतोल्बणफणीन्द्रफणेन्द्रनील-

नीलच्छविच्छुरणशारमुरःस्थलं वः ।

पुष्णातु निद्रुह्नुतनगेन्द्रसुताकुचाग्र-

कस्तूरिकामकरिकाकिणमिन्दुमौलेः ॥ ३२ ॥
 

 
हारीकृतेति । इन्दुमौलेश्चन्द्रमौलेरुरःस्थलं वक्षःस्थलं वो युष्मान् पुष्णातु । भक्ति-

रसोत्पादनेन पोषयत्वित्यर्थः । किंभूतम् । हारीकृतेति । हारीकृतो हारः संपादित उल्बण:

कठिनो यः फणीन्द्रो वासुकिस्तस्य फणेषु इन्द्रनीलमणीनां या नीलच्छविः तस्या श्छुरणं

व्याप्तिः तेन शारं कर्बुरीकृतम् । पुनः किंभूतम् । निहुतेति । निहुत: संगोपित आश्ले-
Digitized by Google