This page has not been fully proofread.

३४
 
काव्यमाला ।
 
ताम्रेऽधरे च हसितं सितमदुतेयं
 
विच्छित्तिरिन्दुशिरसः कुशलं क्रियाद्वः ॥ ३० ॥
उत्तप्तेति । एषा इन्दुशिरसश्चन्द्रमौलेरद्भुता आश्चर्यकारिणी विच्छित्तिः शोभा । एक-
स्मिन्नेकवर्णे वस्तुन्यन्यवर्णमेलनेन विच्छित्तिर्भवति । सेयं विच्छित्तिर्वः कुशलं भवाब्ध्यु-
त्तरणरूपं क्रियात् । एषा केत्याह-कलापे कलापो जटाकटप्रं तत्र । किंभूते । उत्त
तहेमरुचि उत्तप्तं पावकोत्तीर्ण यद्धेम कनकं तद्वद्रुग् दीप्तिर्यस्य तादृशे । रुच्शब्दः ।
'स्युः प्रभा रुग्रुचिस्त्विभा' इत्यमरः । तत्र चन्द्रकला चान्द्रीकला । अत्र पीतवर्णे
जटाकलापे श्वेतवर्णेन्दुलेखासंघटनेन विच्छित्तिः । एवमप्रेऽपि । तथा बालप्रवालवत्
बालविद्रुमवद्रुचिरं तादृशि रक्ते करे पाणी कपालं धवलम् । तथा ताम्रेऽधरे अधरोष्ठे
सितं धवलं च हसितमीषद्धासः ॥
 
श्रेयः प्रयच्छतु परं सुविशुद्धवर्णा
पूर्णाभिलाषविबुधाधिपवन्दनीया ।
पुण्या कविप्रवरवागिव बालचन्द्र-
चूडामणेश्वरणरेणुकणावली वः ॥ ३१ ॥
 
श्रेयः प्रयच्छत्विति । बालचन्द्रचूडामणेर्बालेन्दुशिरोमणे: श्रीशिवभट्टारकस्य पादपद्म-
रजःकणावली वो भवतां परं श्रेयो निःश्रेयसरूपं प्रयच्छतु ददातु । केव। कविप्रवरवा -
गिव । 'कत्र वर्णे' । कवते वर्णयति वर्णनीयमिति । महाकविवागिव । उभे अपि
विशिनष्टि – सुविशुद्धेत्यादि । चरणरजःकणावली किंभूता । सुष्नु विशुद्धो वर्णः अति-
धवलो यस्याः सा । तथा पूर्णाभिलाषैः पूर्णमनोरथैर्विबुधाधिपैरिन्द्रादिदेवैर्विपश्चिद्वरैर्वा
वन्दनीया प्रणमनीया । तया पुण्या पातक्रिनोऽपि प्रणतान्पवित्रीकुर्वती । महाकविवा-
गपि सुविशुद्धा वर्णनीयरसोपयोग्या वर्णा यस्याः सा । तथा विबुधाधिपैः पण्डितप्रवरै-
वन्दनीया स्तुत्या । 'विबुधौ कविगीर्वाणी' इति कोषः । तथा पुण्या मनोज्ञा हृया ।
'पुण्यं पूते मनोज्ञे च' इति मङ्गः ॥
 
हारीकृतोल्बणफणीन्द्रफणेन्द्रनील-
नीलच्छविच्छुरणशारमुरःस्थलं वः ।
पुष्णातु निद्रुतनगेन्द्रसुताकुचाग्र-
कस्तूरिकामकरिकाकिणमिन्दुमौलेः ॥ ३२ ॥
 
हारीकृतेति । इन्दुमौलेश्चन्द्रमौलेरुरःस्थलं वक्षःस्थलं वो युष्मान् पुष्णातु । भक्ति-
रसोत्पादनेन पोषयत्वित्यर्थः । किंभूतम् । हारीकृतेति । हारीकृतो हारः संपादित उल्बण:
कठिनो यः फणीन्द्रो वासुकिस्तस्य फणेषु इन्द्रनीलमणीनां या नीलच्छविः तस्या छुरणं
व्याप्तिः तेन शारं कर्बुरीकृतम् । पुनः किंभूतम् । निहुतेति । निहुत: संगोपित आश्ले-
Digitized by Google