This page has been fully proofread once and needs a second look.

३ स्तोत्रम्]
 
स्तुतिकुसुमाञ्जलिः ।
 
भर्गस्य भृज्यन्तेऽनेन कालादयः भर्गः श्रोशिवस्तस्य शिरःकपालं शिरःस्थं कपालं वो

गुष्मभ्यं शर्म मोक्षलक्ष्मीसुखं दिशतु ददातु । तत्किमित्याह - तस्य प्रभोः प्रलये काल-
वहि

वह्नि
वपुषः कालाग्रिनिरुद्ररूपस्य प्रभूतभूतव्रजं अनेकलोकसंघं पचतो यत्कपालं मडाहानस-

त्वम् । महत् अनोऽस्य । महानसम् । अनसा उपकरणं लक्ष्यते । 'अनोश्मायःसरसां

जातिसंज्ञयोः' इति टच् समासान्तः । 'रसवत्यां तु पाकस्थानमहानसे' इत्यमरः । महान-

सत्वं रसवतीत्वं व्रजति। महाप्रलये समस्तप्राणिसंघं कालाभिग्निरुद्रः पचतीत्यागमप्रसिद्धिः ॥

 
चान्द्रं च धाम सुरनिर्झरिणीजलं च

हस्तस्थ हेमकलशामृतजीवनं च ।

स्निग्धं च दृग्विलसितं हसितं सितं च
 

युष्माकमूष्मशमनाय भवन्तु शंभोः ॥ २८ ॥
 
-
 

 
चान्द्रं चेति । शंभोरेतानि वस्तूनि परमशीतलानि वो युष्माकमूष्मशमनाय भव-

मरुभ्रमणजतापहरणाय भवन्तु । एतानि कानीत्याह – चन्द्रस्येदं चान्द्रम् । चान्द्रं

धाम प्रकाशः । सुरनिर्झरिणी देवनदी तस्या जलं च । तथा हस्ते तिष्ठतीति हस्तस्थः

तादृशश्चासौ हेमकलशः तत्र अमृतजीवनं अमृतरूपं वारि । यदुक्तम् – 'देवं सुधाक-

लश -' इति ध्याने । तथा दृशः दर्शनं दृक् तस्य दर्शनस्य विलसितम् । सदयनयनो-

द्वीक्षणरूपस्य दर्शनस्येत्यर्थः । किंभूतं तत् । स्निग्धं सकृपम् । मुक्तासारम् (?) । तथा

सितमतिश्वेतं हसितमीषद्धासश्च ॥
 

 
मूर्ध्नि द्युसिन्धुधवले धवलेन्दुलेखा

कैलास शैलशिखरे धवलश्च वाहः ।

नीहारहारिणि वपुष्यपि भूतिरेषा
 

पुष्णातु वः सदृश संघटना शिवस्य ॥ २९ ॥
 
मूर्ध्नाति । एषा सदृशेषु
सदृशसंघटना शिवस्य ॥ २९ ॥
 
मूर्ध्नाति । एषा सदृशेषु सदृशसंघटना
। एकशेषः । वो युष्मान् पुष्णातु । श्रीशिवभ-

क्तिरसोत्कर्षेषं पोषयत्वित्यर्थः । एषा का । द्युसिन्धुर्देवनदी गङ्गा तया घवले मूर्ध्नि शिरसि

धवलैवेन्दुलेखा चन्द्रलेखा। तथा कं जलम्, इला भूमिश्च केले । तयोरासः स्थानम स्मि-

न्निति केलासः स्फटिकम् । तन्मयः कैलासः स्फटिकगिरिः । तस्य शिखरे स्त्रनिवासभूते

धवलः श्वेतः धवलो वृषश्च वाहो वाहनम् । तथा नीहारस्तुहिनं तद्वत् हारिणि मनोरमे

धवले वपुषि स्वदेहे एषा भूतिर्विभूतिः भस्मरूपा । अत्र गङ्गानिवासस्थाने मूर्ध्नि धवले

सदृशे धवलचन्द्रकला सदृशी वर्णेन । एवमग्रेऽपि ॥
 

 
उत्तप्तहेमरुचि चन्द्रकला कलापे

बालप्रवालरुचिरे च करे कपालम् ।
 
2
 
Digitized by Google