2023-02-23 21:27:03 by ambuda-bot
This page has not been fully proofread.
३ स्तोत्रम्]
स्तुतिकुसुमाञ्जलिः ।
भर्गस्य भृज्यन्तेऽनेन कालादयः भर्गः श्रोशिवस्तस्य शिरःकपालं शिरःस्थं कपालं वो
गुष्मभ्यं शर्म मोक्षलक्ष्मीसुखं दिशतु ददातु । तत्किमित्याह - तस्य प्रभोः प्रलये काल-
वहिवपुषः कालाग्रिरुद्ररूपस्य प्रभूतभूतव्रजं अनेकलोकसंघं पचतो यत्कपालं मडानस-
त्वम् । महत् अनोऽस्य । महानसम् । अनसा उपकरणं लक्ष्यते । 'अनोश्मायःसरसां
जातिसंज्ञयोः' इति टच् समासान्तः । 'रसवत्यां तु पाकस्थानमहानसे' इत्यमरः । महान-
सत्वं रसवतीत्वं व्रजति। महाप्रलये समस्तप्राणिसंघं कालाभिरुद्रः पचतीत्यागमप्रसिद्धिः ॥
चान्द्रं च धाम सुरनिर्झरिणीजलं च
हस्तस्थ हेमकलशामृतजीवनं च ।
स्निग्धं च दृग्विलसितं हसितं सितं च
युष्माकमूष्मशमनाय भवन्तु शंभोः ॥ २८ ॥
-
चान्द्रं चेति । शंभोरेतानि वस्तूनि परमशीतलानि वो युष्माकमूष्मशमनाय भव-
मरुभ्रमणजतापहरणाय भवन्तु । एतानि कानीत्याह – चन्द्रस्येदं चान्द्रम् । चान्द्रं
धाम प्रकाशः । सुरनिर्झरिणी देवनदी तस्या जलं च । तथा हस्ते तिष्ठतीति हस्तस्थः
तादृशश्चासौ हेमकलशः तत्र अमृतजीवनं अमृतरूपं वारि । यदुक्तम् – 'देवं सुधाक-
लश -' इति ध्याने । तथा दृशः दर्शनं दृक् तस्य दर्शनस्य विलसितम् । सदयनयनो-
द्वीक्षणरूपस्य दर्शनस्येत्यर्थः । किंभूतं तत् । स्निग्धं सकृपम् । मुक्तासारम् (?) । तथा
सितमतिश्वेतं हसितमीषद्धासश्च ॥
मूर्ध्नि द्युसिन्धुधवले धवलेन्दुलेखा
कैलास शैलशिखरे धवलच वाहः ।
नीहारहारिणि वपुष्यपि भूतिरेषा
पुष्णातु वः सदृश संघटना शिवस्य ॥ २९ ॥
मूर्ध्नाति । एषा सदृशेषु सदृशसंघटना । एकशेषः । वो युष्मान् पुष्णातु । श्रीशिवभ-
क्तिरसोत्कर्षे पोषयत्वित्यर्थः । एषा का । द्युसिन्धुर्देवनदी गङ्गा तया घवले मूर्ध्नि शिरसि
धवलैवेन्दुलेखा चन्द्रलेखा। तथा कं जलम्, इला भूमिश्च केले । तयोरासः स्थानम स्मि-
न्निति केलासः स्फटिकम् । तन्मयः कैलासः स्फटिकगिरिः । तस्य शिखरे स्त्रनिवासभूते
धवलः श्वेतः धवलो वृषश्च वाहो वाहनम् । तथा नीहारस्तुहिनं तद्वत् हारिणि मनोरमे
धवले वपुषि स्वदेहे एषा भूतिर्विभूतिः भस्मरूपा । अत्र गङ्गानिवासस्थाने मूर्ध्नि धवले
सदृशे धवलचन्द्रकला सदृशी वर्णेन । एवमग्रेऽपि ॥
उत्तप्तहेमरुचि चन्द्रकला कलापे
बालप्रवालरुचिरे च करे कपालम् ।
2
Digitized by Google