This page has been fully proofread once and needs a second look.

४५६
 
काव्यमाला ।
 
सकलविपश्चिद्वर्यः प्रज्ञाजितवृत्रहामात्यः ।

अवतारोऽजानजनि तस्मात्पाण्डित्यस्यावतार इव ॥

सर्वज्ञः सविभूतिः सर्वार्च्यः सर्वमङ्गलोपैतः ।

तस्याजनि तनुजन्मा शंकर इति भूतले ख्यातः ॥

अस्ति सद्गुरुकृपारसपात्रं रत्नकण्ठ इति तस्य तनूजः ।

भास्करस्तुतिरहस्यसमेतं येन रत्नशतकं निरमायि ॥

वस्वग्न्यत्यष्टभिर्वर्षे मिते (१७३८) विक्रमभूपतेः ।

अवरङ्गमहीपाले कृत्स्नां शासति मेदिनीम् ॥

बालानां सुखबोधाय हर्षाय विदुषां कृता ।

जगद्धरकवेः काव्ये तेनैषा लघुपश्चिका ॥

यदत्र स्खलितं किंचित्प्रमादाल्लिखितं मया ।

विबुधाः करुणासारा निपुणं शोधयन्तु तत् ॥
 

 
इति श्रीराजानकशंकरकण्ठात्मजरत्नकण्ठविरचितया लघुपश्ञ्चिकया समेतं

काश्मीरकमहाकविश्रीजगद्धरभट्टस्य वंशवर्णनम् ।
 

 
समाप्तोऽयं भगवतो महेश्वरस्य स्तुतिकुसुमाञ्जलिः ।
 
Digitized by Google