This page has not been fully proofread.

४५६
 
काव्यमाला ।
 
सकलविपश्चिद्वर्यः प्रज्ञाजितवृत्रहामात्यः ।
अवतारोऽजान तस्मात्पाण्डित्यस्यावतार इव ॥
सर्वज्ञः सविभूतिः सर्वार्च्यः सर्वमङ्गलोपैतः ।
तस्याजनि तनुजन्मा शंकर इति भूतले ख्यातः ॥
अस्ति सद्गुरुकृपारसपात्रं रत्नकण्ठ इति तस्य तनूजः ।
भास्करस्तुतिरहस्यसमेतं येन रत्नशतकं निरमायि ॥
वस्वग्न्यत्यष्टभिर्वर्षे मिते (१७३८) विक्रमभूपतेः ।
अवरङ्गमहीपाले कृत्स्नां शासति मेदिनीम् ॥
बालानां सुखबोधाय हर्षाय विदुषां कृता ।
जगद्धरकवेः काव्ये तेनैषा लघुपश्चिका ॥
यदत्र स्खलितं किंचित्प्रमादाल्लिखितं मया ।
विबुधाः करुणासारा निपुणं शोधयन्तु तत् ॥
 
इति श्रीराजानकशंकरकण्ठात्मजरत्नकण्ठविरचितया लघुपश्चिकया समेतं
काश्मीरकमहाकविश्रीजगद्धरभट्टस्य वंशवर्णनम् ।
 
समाप्तोऽयं भगवतो महेश्वरस्य स्तुतिकुसुमाञ्जलिः ।
 
Digitized by Google