This page has not been fully proofread.

स्तुतिकुसुमाञ्जलिः ।
 
कारंकारमकारि वारितशमैरक्षैररक्षैरिदं
 
निघ्नं विघ्नितशंभुसेवनसुखाभोगोपभोगं मनः ।
किं तु क्वापि कदापि कापि पतिता सा साधुदृष्टिर्यतः
प्राप्तः सूक्तिवपुर्जितोर्जितसुधास्वादः प्रसाद प्रभोः ॥ १५ ॥
 
३९ स्तोत्रम्]
 
४५९
 
वारितो निवारितः शमः शान्तिर्यैस्ते तादृशैः । तथा न रक्षन्तीत्यरक्षा दस्युप्रायास्तैः
अक्षैरिन्द्रियैरिदं मम मनो निघ्नं परवशं सत् विघ्नितश्रीपरमेश्वरसेवनामृतरसास्वादोपभोगं
कारंकारं कृत्वाकृत्वा पौनःपुन्येनाकारि कृतम् । एतदतीतम् । किं तु पक्षान्तरे । क्वापि
कुत्राप्युद्देशे कदाचित्कस्मिंश्चित्काले काप्यनिर्वाच्यकृपारसा साधूनां संयतचित्तानां महा-
पुरुषाणां धौताशयानां दृष्टिर्मयि पतिता । अतो हेतोः प्रभोः परमेश्वरस्य प्रसादः सूक्ति-
वपुः प्रौढोक्ति .....मूर्तिः प्राप्तः । किंभूतः । जित ऊर्जित उत्कृष्टः सुधास्वादो रसाय-
नास्वादो येन स तादृशः ॥
 
अथ ग्रन्थकृन्निजनिबन्धपरिसमाप्तौ निजभारत्याः साफल्यं प्रशंसयन्नाह -
यत्सत्यं सदसद्विवेकविकलग्रामीणकग्रामणी-
मिथ्यास्तोत्रपरा पराभवभुवं नीतासि भीतास्यतः ।
मातः कातरतां विमुञ्च यदसौ सौभाग्यभाग्यावधिः
 
संजातो जगदेकनाथनुतिभिर्वाग्देवि ते विभ्रमः ॥ १६ ॥
 
हे मातर्जननि वाग्देवि, एतत्सत्यं भवति यत् सदसतोर्विवेकेन विचारेण विकला ये
ग्रामीणकग्रामण्यः कतिपयग्रामाधिपतयस्तेषां यन्मिथ्यास्तोत्रमनृता स्तुतिस्तत्र परा ली-
नाकृता यदस्मादृशैर्मन्दमतिभिः पराभवस्थानं नीतासि अतः कारणागीतासि । मा
कदाचित्पुनरपि तादृशमेव पराभवस्थानमेते मां नयन्त्यतस्त्रस्तासीत्यर्थः । हे मातर्वाग्देवि,
इदानीं पुनस्तां कातरतां विमुञ्च त्यज । कुत इत्याह – यद्यस्मात्कारणादसौ सौभाग्यस्य च
भाग्यानां चावधिः परा काष्ठा जगतस्त्रिजगतस्त्रिभुवनस्यैकनाथः परमेशस्तस्य नुतिभिः
स्तुतिभिस्ते तव विभ्रमो महानुल्लासः संजातो महानानन्द उत्पन्न इति शिवोम् । इति ज-
गद्धरभट्टकुलावलीविवरणम् ॥
 
तत्त्वज्ञानपरायणधौम्यायनमुनिप्रवर्यस्य ।
आनन्दोऽजनि वंशे सुमनीषी मूर्त इवानन्दः ॥
लक्ष्म्यालिङ्गितदेहः सबल: सच्चऋविख्यातः ।
विबुधाचितचरणयुगस्तस्माद्दामोदरो जातः ॥
 
१. इयमार्या छन्दोभङ्गदूषिताप्यादर्शानुरोधेन तथैव स्थापिता.
 
Digitized by Google