This page has not been fully proofread.

काव्यमाला ।
 
देव्यास्तदस्त्विति । इन्दुमौलिः श्रीशिवः तस्य देहार्धे वामभागे बद्धवसतेर्देव्याः पा-
र्वत्यास्तदेकं कुचचूचुकम् । 'चूचुकं तु कुचाग्रं स्यात्' इत्यमरः । तदेव कुचाग्रं भवता-
ममृताप्तये मोक्षलक्ष्मीप्राप्त्यै अस्तु । तत्किमित्याह - यदेकं चूचुकं मदनेन प्राक्सापरा-
धेन....
"इन्द्रनीलमणिलिङ्गं तस्य भनि विच्छित्तिमभ्येति । अत्र वक्षः-
स्थलस्य सुवर्णपीठमुपमानम् । चूचुकस्येन्द्रनीललिङ्गम् ॥
याः क्षीरसिन्धुलहरीवृतमन्दराद्रि-
मुद्रामनङ्गदमनस्य नयन्ति जूटम् ।
द्विर्भाविताविरलसिद्धसरित्तरङ्गा-
स्ता लङ्घयन्त्वघमघर्मरुचो रुचो वः ॥ २५ ॥
 
याः क्षीरेति । द्विर्भाविता द्विगुणीकृता अविरलाः सिद्धसरितो गङ्गायास्तरङ्गा या
भिस्ता अघर्मरुचः श्रीशिवभट्टारकशिरः स्थितस्य चन्द्रमसो रुचो दीप्तयो वो युष्माक
मघं पापं लघयन्तु दूरीकुर्वन्तु । ता का इत्याह – या रुच: अनङ्गदमनस्य कामरिपोः
श्रीशिवस्य जूटं कपर्दे क्षीरसमुद्रलहरीवृतमन्दराख्यगिरिमुद्रां तदाकृतिमुद्रां नयन्ति
प्रापयन्ति । नयतिर्द्विकर्मकः ॥
 
लोकत्रयाभ्युदयजन्ममही महीयः-
स्थानाधिरोहणविधावधिरोहिणी या ।
सा चन्द्रचूडमुकुटध्वजवैजयन्ती
 
जोरनिहुतनया तनयावताद्वः ॥ २६ ॥
 
लोकत्रयेति । अनिद्रुतः प्रकटीकृतो नयो नीतिर्यया । त्रिलोकाभ्युदयकरणहेतोः
पातकाब्धिमनजनोद्धरणाच्च । अन्यरूपेण जाह्नवी का (?) । चन्द्रचूडेति । चन्द्रचूडस्य
श्रीशंभोर्मुकुटमेव ध्वजस्तत्र वैजयन्ती पताकेव । सा जहोस्तनया जाह्नवी वो युष्मान-
वतात् रक्षतु । सा का इत्याह – लोकाभ्युदयेति । अत्रापि रूपकेण या जाह्नवी
लोकत्रयस्य त्रिजगतः अभ्युदय ऐहिकामुष्मिकस्तस्य जन्ममही जन्मभूमिरूपा । तथा
या गङ्गा महीयः अतिमहत् त्रिदिवादप्यधिकं यत्स्थानं तत्राधिरोहणं भक्तजनस्य तदर्थ-
मधिरोहिणी निःश्रेणिका ॥
 
भालाग्निकीलकलिताखिलरन्ध्रभागं
 
भर्गस्य वो दिशतु शर्म शिरःकपालम् ।
यत्कालवह्निवपुषः पचतः प्रभूत-
भूतव्रजं व्रजति तस्य महानसत्वम् ॥ २७ ॥
 
भालाग्निकीलेति । भालाग्नेर्ललाटस्थामेः कीलैर्ज्वालाभिः । 'वहेर्दूयोर्ज्वलकीलो'
इत्यमरः । तैः कलिताः पूरिता अखिलाः सर्वे रन्ध्रभागा रन्ध्रस्थानानि यस्य तत् ।
 
Digitized by Google