2023-10-28 08:54:49 by jayusudindra
This page has been fully proofread once and needs a second look.
स्तुतिकुसुमाञ्जलिः ।
दस्माकमात्त
चिन्वन्ति पल्वलजलात्कुशला विशाल-
शेवालजालकलिलात्कमलौघमेव ॥ ११ ॥
४५३
अन्तरं सदसद्विशेषं जानन्तीत्यन्तरज्ञाः सहृदया अस्मात्संदर्भात्समग्रं कंचनविशेषं गृ
ह्णन्तु । किंभूतास्ते । आत्तं गृहीतं वचनं यैस्ते आत्तवचना: । केषाम् । अस्माकम् । दृष्टं
चैतत् । कुशला निपुणा विशालाद्विस्तीर्णात् शेवालजालेन कलिलाद्
त्तडा
यद्यप्यासामनलसरसस्फारसारं न किंचि-
द्वाचामन्तर्विरचितचमत्कारमस्त्यर्थतत्त्वम् ।
तत्राप्येतास्त्रिभुवनगुरुस्तोत्रमैत्रीपवित्राः
कर्णा
अनलसोऽमन्दो यो रसस्फारो रसोत्कर्षस्तेन सारम् । तथा अन्तर्मनसि कस्यापि वि
रचितश्चमत्कारो येन तत्तादृशमर्थतत्त्वं लक्ष्यव्यङ्ग्यद्योत्यपरमार्थतत्त्वमासां मदीयानां वाचां
यद्यपि न किंचिदस्ति तत्रापि सति त्रिभुवनगुरोस्त्रिभुवने त्रिजगति गुरुः कैवल्यपदप्राप्ति-
हेतुशिवशासनोपदेशदैशिकस्तस्य परमेश्वरस्य स्तोत्राणि तैर्मैत्री तया पवित्रा एता मदीया
वाचः कर्णस्याभ्यर्
प्रेमाणं मणिकर्णिकां प्रति बुधा मन्दीकुरुध्वं मतिं
मुक्तादामनि माकृत स्पृशत मा ताम्बूलहेवाकिताम् ।
भूषार्थं प्रभवन्ति कर्णपुलिने कण्ठे मुखाम्भोरुहे
देवस्य स्मरशासनस्य यदिमाः स्वोत्रावलीसूक्तयः ॥ १३ ॥
हे बुधा विद्वांसः, मणिमयी चासौ कर्णिका कर्णाभरणं तां प्रति प्रेमाणं स्नेहं मन्दी-
कुरुध्वं मन्दं कुरुत । तथा यूयं मुक्तादामनि मुक्तास्रजि मतिं बुद्
नागवल्लीदलेष्वपि हेवाकितां मा स्पृशत । कुत इत्याह – भूषार्थमिति । यत इमाः स्मर-
शासनस्य स्मररिपोर्देवस्य श्रीशंभोः स्तोत्रावल्यां सूक्तयः प्रौढोक्तयो मम भवतां कर्णतटे
कण्ठे गले मुखपद्मे च भूषार्
[^१]. 'वचनात्' ख.
Digitized by Google