This page has not been fully proofread.

३९ स्तोत्रम्]
 
स्तुतिकुसुमाञ्जलिः ।
 
गृह्णन्तु कंचन विशेषमशेषमस्मा-
दस्माकमात्तवैचनाः क्वचनान्तरज्ञाः ।
चिन्वन्ति पल्वलजलात्कुशला विशाल-
शेवालजालकलिलात्कमलौघमेव ॥ ११ ॥
 
४५३
 
अन्तरं सदसद्विशेषं जानन्तीत्यन्तरज्ञाः सहृदया अस्मात्संदर्भात्समग्रं कंचनविशेषं गृ
ह्णन्तु । किंभूतास्ते । आत्तं गृहीतं वचनं यैस्ते आत्तवचना: । केषाम् । अस्माकम् । दृष्टं
चैतत् । कुशला निपुणा विशालाद्विस्तीर्णात् शेवालजालेन कलिलाद्वयाप्तात् पल्वलजला-
त्तडागादकात कमलौघमेव तामरसौघमेव चिन्वन्ति । तदेव सारं गृह्णन्तीत्यर्थः ॥
यद्यप्यासामनलसरसस्फारसारं न किंचि-
द्वाचामन्तर्विरचितचमत्कारमस्त्यर्थतत्त्वम् ।
तत्राप्येतास्त्रिभुवनगुरुस्तोत्रमैत्रीपवित्राः
 
कर्णाम्यर्णाभरणसरणिं नेतुमर्हन्ति सन्तः ॥ १२ ॥
 
अनलसोऽमन्दो यो रसस्फारो रसोत्कर्षस्तेन सारम् । तथा अन्तर्मनसि कस्यापि वि
रचितश्चमत्कारो येन तत्तादृशमर्थतत्त्वं लक्ष्यव्यङ्ग्यद्योत्यपरमार्थतत्त्वमासां मदीयानां वाचां
यद्यपि न किंचिदस्ति तत्रापि सति त्रिभुवनगुरोत्रिभुवने त्रिजगति गुरुः कैवल्यपदप्राप्ति-
हेतुशिवशासनोपदेशदैशिकस्तस्य परमेश्वरस्य स्तोत्राणि तैमैत्री तया पवित्रा एता मदीया
वाचः कर्णस्याभ्यर्ण तत्राभरणपदवीं नेतुं प्रापयितुं सन्तः सहृदया अर्हन्ति ॥
 
प्रेमाणं मणिकर्णिकां प्रति बुधा मन्दीकुरुध्वं मतिं
 
मुक्तादामनि माकृत स्पृशत मा ताम्बूलहेवाकिताम् ।
भूषार्थं प्रभवन्ति कर्णपुलिने कण्ठे मुखाम्भोरुहे
 
देवस्य स्मरशासनस्य यदिमाः स्वोत्रावलीसूक्तयः ॥ १३ ॥
 
हे बुधा विद्वांसः, मणिमयी चासौ कर्णिका कर्णाभरणं तां प्रति प्रेमाणं स्नेहं मन्दी-
कुरुध्वं मन्दं कुरुत । तथा यूयं मुक्तादामनि मुक्तास्रजि मतिं बुद्धि मा कुरुत । ताम्बूलेषु
नागवल्लीदलेष्वपि हेवाकितां मा स्पृशत । कुत इत्याह – भूषार्थमिति । यत इमाः स्मर-
शासनस्य स्मररिपोर्देवस्य श्रीशंभोः स्तोत्रावल्यां सूक्तयः प्रौढोक्तयो मम भवतां कर्णतटे
कण्ठे गले मुखपद्मे च भूषार्थ शोभार्थ प्रभवन्ति समर्था भवन्ति ॥
 
१ 'वचनात्' ख.
 
Digitized by Google