This page has not been fully proofread.

४५२
 
काव्यमाला ।
 
अथास्य धीमानुदपादि वादिनां वितीर्णमुद्रो वदनेष्वनेकशः ।
उदारसंस्कारसुसारभारतीपवित्रवाम्बुरुहो जगद्धरः ॥ ७ ॥
 
अथानन्तरमस्य रत्नधरस्य विदुषः सुतो जगद्धरो धीमान्मनीषी उदपादि उदभूत् ।
किंभूतः । अनेकशो वादिनां मुखेषु वितीर्णा मुद्रा मौनरूपा येन सः । पुनः किंभूतः । उ
दारो यः संस्कारः शब्दानुशासनाभ्यासव्युत्पत्तिजो यस्यास्तादृशी सुष्टु सारा चासौ भारती
वाणी तया पवित्रं मुखाम्बुजं यस्य सः ॥
 
अपि स्थवीयःस्वकृतस्थिरस्थितिः कुशाग्रतीक्ष्णामधिरुह्य यन्मतिम् ।
अहो बत खैरविहारलीलया पदं न्यधादस्खलितं सरस्वती ॥ ८ ॥
 
अहो आश्चर्ये । बत हर्षे । अतिशयेन स्थूलाः स्थवीयांसस्तेष्वपि । स्थूलमतिष्वपी-
त्यर्थः । न कृता स्थिरा स्थितिर्यया सा सरस्वती वाग्देवी कुशाप्रतीक्ष्णां सूक्ष्मामपि
यन्मतिं यस्य जगद्धरकवेर्बुद्धिमधिरुह्याश्रित्य स्वैरं विहारलीलया स्वैरविहारार्थमस्खलितं
ध्रुवं पदं स्थानं न्यधात् निहितवती । सूक्ष्मे तीक्ष्णे हि वस्तुनि चरणवितरणमत्यद्भुतम् ॥
निर्मत्सरः सहृदयः श्रुतपारदृश्वा
विश्वातिशायिविनयः प्रियवाक्सुशीलः ।
किं वापरं कविगिरां सदसद्विचार-
चातुर्यधुर्यधिषणः शरणं य एकः ॥ ९ ॥
 
निर्गतो मत्सरः परोत्कर्षासहनं यस्मात्सः । तथा सहृदयः शत्रौ मित्रे च समः सचे-
तनश्च । तथा श्रुतस्य शास्त्रस्य पारदृश्वा । तथा विश्वमतिशेते तादृशो विनयो यस्य सः ।
तथा प्रियवाक् मधुरवचनः । तथा सुशीलो यो जगद्धरकविः किं वा परं साधुवाक्यं ब्रूमः
य एकः कवीनां निपुणकविकर्मकृतां या गिरः प्रौढोक्तयस्तासां शरणं सद्म य एक आ
सीत् । किंभूतः । सदसतोर्विचारे यच्चातुर्य तेन भुर्या धिषणा बुद्धिर्यस्य सः ॥
तेनादृतेन शिशुनैव निवेद्यमान-
मानन्दकन्दलितभक्तिकुतूहलेन ।
एतं मृगाङ्ककलिकाकलितावतंस-
शंसारसायनरसं रसयन्तु सन्तः ॥ १० ॥
 
तेन जगद्धरकविना शिशुनैवापूर्णषोडशवर्षेणैव आदृतेन श्रीशिवभक्तौ सादरेण आनन्देन
परमानन्देन कन्दलितमुत्पन्नं भक्तिकुतूहलं श्रीशंभुभक्तिकौतुकं यस्य तादृशेन निवेद्य-
मानं प्राभृतीकृतमेतं चन्द्रमौलिस्तुत्यमृतरसं सन्तो मनीषिणो रसयन्त्वास्वादयन्तु ॥
 
१ 'स्थवीयःसु कृत' क ख.
 
Digitized by Google