This page has not been fully proofread.

३९ स्तोत्रम् ]
 
स्तुतिकुसुमाञ्जलिः ।
 
४९१
 
त्वात् अवश्यमग्रत आदावेव सर्वब्राह्मण जातेर निर्मायाकृत्वा पुनर्विमृश्य विमर्श कृत्वा द्वि-
जन्मनां विप्रवराणां विप्रक्षत्रियविशां च वर्णानां पतेरावलेरुपरि पुनर्न्यवीविशत् निविशन्तं
प्रायुक्त । किंभूतं काक्रपदैन भ्रमचिडेनाङ्कितस्तम् । यथा कञ्चित्कविविद्वानवश्यमग्रत आ-
दावेव लेख्यं श्लोकं पद्यमनिर्मायालिखित्वा पुनर्वर्णानामक्षराणां पशेरुपरि काकपदं निजभ्र-
मसूचकं लिखति तथेत्यर्थः ॥
 
अनन्तसिद्धान्तपथान्तगामिनः समस्तशास्त्रार्णवपारदृश्वनः ।
ऋजुर्यजुर्वेदपदार्थवर्णना व्यक्ति यस्याद्भुतविश्रुतं श्रुतम् ॥ ३ ॥
 
अनन्ता ये सिद्धान्तास्तेषां पन्थानो मार्गास्तेषामन्तगामी तादृशस्य । तथा समस्तानि
यानि शास्त्राणि तान्येव दुरवगाहत्वादर्णवाः समुद्रास्तेषां पारदृश्वा तादृशस्य गौरधरस्य
ऋजुर्निर्मला निर्दोषा च यजुर्वेदपदानामर्थवर्णना भाष्यपद्धतिर्वेदविलासनानी यस्याद्भुतं च
विश्रुतं प्रसिद्धं च श्रुतं व्यक्ति प्रकटयति ॥
 
सुतोऽभवद्रत्नधरः शिरोमणिर्मनीषिणामस्य गुणौघसागरः ।
 
यमाश्रिताह्वास्त सरस्वती हरेरुरःस्थलं रत्नघरं श्रितां श्रियम् ॥ ४ ॥
 
गुणानां पाण्डित्यादीनामोघः समूहस्तस्य सागर: समुद्रः । तथा मनीषिणां विदुषां शि-
रोमणिरस्य गौरधरस्य विदुषः सुतस्तनयो रत्नधरो रत्नधरनामा सोऽभूत् । स क इत्याइ-
यमातेति । यं रत्नधरं मनीषिणमाश्रिता सरस्वती वाग्देवी रत्नं कौस्तुभाख्यं धारयति
तादृशं हरेर्विष्णोर्वक्षःस्थलं श्रितां श्रियं लक्ष्मीमाह्वास्त पस्पर्धे ॥
 
उदारसत्त्वं विपुलं सुनिर्मलं प्ररूढमर्यादमगाधमाशयम् ।
 
प्रविश्य यस्य स्ववशा सरस्वती पदं बबन्ध स्थिरमम्बुधेरिव ॥ ५ ॥
उदारसत्त्वं प्रभूतधैर्य विपुलमुदात्तं सुष्ठु निर्मलं तथा प्ररूढा मर्यादा..
 
यस्य स तादृशं तथा अगाधं गम्भीरं यस्य रत्नधरस्याशयं मानसं प्रविश्य स्ववशा स्वतन्त्रा
सरस्वती वाग्देवी स्थिरं पदं स्थानं बबन्ध । तत्रैव स्थितिमकरोदित्यर्थः । यस्य कस्येव । अ-
म्बुधेरिव समुद्रस्येव । यथा उदाराः सत्त्वा जलप्राणिनो मकराद्या यस्मिन्स तादृशं तथा वि
पुलं विस्तीर्ण सुष्टु निर्मलं मर्यादया युक्तमगाधमतलस्पर्श चाम्बुधेः समुद्रस्याशयं मध्यं
प्रविश्य सरस्वती नाम्नी नदी स्ववशा सुष्टु अवशा पराधीना स्थिरं पदं बध्नाति तथेत्यर्थः ।
 

 
कपोलदोलायितकर्णभूषणं तरङ्गितभ्रूयुगभङ्गुरालिकम् ।
सचेतसामर्धनिमीलितेक्षणं क्षणं वितन्वन्ति मुखं यदुक्तयः ॥ ६ ॥
यस्य रत्नधरस्य विदुष उक्तयः प्रौढोक्तयः सचेतसां सहृदयानां मुखमेवंविधं चमत्कारो-
त्कर्षात् क्षणं वितन्वन्ति विस्तारयन्ति । एवंविधं किमित्याह – मुखं किंभूतम् । कपो-
लयोर्दोलायितं चमत्कारोत्कर्षेणान्दोलनात्कर्णभूषणं यस्य तादृशम् । तथा तरङ्गितमूर्ध्व
क्षिप्तं यच्छ्रयुगं तेन भङ्गुरं कुटिलमलिकं ललाटं यस्मिस्तत् । तथा किंभूतं मुखम् । अर्ध-
निमीलिते अद्भुतरसास्वादादीक्षणे नेत्रे यत्र तत् ॥
 
-
 
Digitized by Google