This page has not been fully proofread.

४५०
 
काव्यमाला ।
 
-
 
पतिः । स्कन्दः कुमारः । नन्दी नन्द्रिरुद्रः । प्रभृतिना महाकालभृङ्गिरिटिमुख्याः । तैर-
भिराद्धैः पूजासमये प्रभामण्डलपूजायामाराधितैर्वन्यं प्रशस्यमावेद्यमानं निवेद्यमानमिमं स्तु-
तिकुसुमसमूहं शंभोस्निजगदीश्वरस्य प्राभृतीकृत्य प्राभृतं ढौकनकं संपाद्यामलं विमलं शर्म
कल्याणं यन्मया लब्धं तेनेदं भुवि भुवीत्यादिवक्ष्यमाणमस्तु भूयात् । इदं किमित्याह – भुवि
भुवीति । कुत्सितः श्रीशिवशासनादपरकुटिलशासनमार्गगमनोत्थो विकल्पो भुवि भुवि
देशे देशे स्वल्पतामतितामवमेतु । तथा शुद्धबोधः शुद्धसंविद्रूपो धुरि धुरि अग्रे अग्रे वर्धतां
वृद्धिं लभताम् । किं कर्तुम् । दुरितानां त्रिविधानामोघः समूहस्तं जेतुम् । शुद्धज्ञानप्रकाशो
वर्धतामित्यर्थः । तथा पथि पथि प्रतिमार्गे मथिता दूरीकृता उग्रां व्यापदं जन्मजरामरणत्रा-
सजनितामापन्ना ये अशरणा जनास्तेषां तापा आध्यात्मिकाधिदैविकाधिभौतिकास्ते यया
तादृशी शंभुभक्तिः श्रीशिवभक्तिः परिपूर्णा अत्युद्रिक्ता नरि नरि जृम्भतामुल्लसतु । इतीद-
मेवास्त्वित्यर्थः ॥
 
इति शुभं भगवञ्चरितस्तुतिव्यतिकरेण यदर्जितमूर्जितम् ।
 
भवतु तेन मनस्यनपायिनी सुकृतिनां शिवभक्तिचमत्कृतिः ॥ ३० ॥
इतीति पूर्वोक्तप्रकारेण भगवतः श्रीशिवभट्टारकस्य या स्तुतिस्तस्या व्यतिकरेण मेलापेन
मया जगद्धरकविना यदूर्जितं महत्सुकृतं पुण्यमर्जितमुपार्जितं तेन श्रीशिवभक्तिचमत्कृतिः
सुकृतिनां पुण्यवतां मनस्यनपायिनी निश्चला भवत्विति शिवम् ॥
 
इति श्रीराजानकशंकरकण्ठात्मजरत्नकण्ठविरचितया लघुपश्चिकया समेतं काश्मीरक-
महाकविश्रीजगद्धरभट्टविरचिते भगवतो महेश्वरस्य स्तुतिकुसुमाञ्जलौ
पुण्यपरिणामस्तोत्रमष्टात्रिंशम् ॥
 
ग्रन्थकर्तुर्वेशवर्णनम् ।
 
अथातो ग्रन्थकृत्स्ववंशावलीवर्णनं करोति कतिपयैर्वृत्तै:-
पुरा पुरारे: पदधूलिधूसरः सरस्वतीस्खैरविहारभूरभूत् ।
विशालवंशश्रुतवृत्तविश्रुतो विपश्चितां गौरधरः किलाग्रणीः ॥ १ ॥
किल प्रसिद्धौ । विपश्चितां संख्यावतामग्रणीधुर्यो गौरधरो गौरधरनामा सरस्वत्या वा-
ग्देव्याः स्वैरं स्वेच्छया विहारस्तस्य भूः स्थानमभूत् । आरोपेण योजना । कदा । पुरा पूर्वम् ।
किंभूतः पुरारेस्त्रिपुरदाहिनः श्रीशंभोः पदधूल्या धूसरः । तथा विशालो वंशः कुलं भरद्वा-
जमुनिवर्यवंशः श्रुतं शास्त्रं वृत्तमाचारस्तैविस्तीर्णैर्विश्रुतो विख्यातः ॥
 
भ्रमादनिर्माय पुरातनः कविर्यमग्रिम श्लोकमवश्यमग्रतः ।
 
-
 
विमृश्य पङ्केरुपरि द्विजन्मनां न्यवीविशत्काकपदाङ्कितं पुनः ॥ २ ॥
पुरातनः कविर्ब्रह्मा अग्रिमो धुर्यः श्लोको यशो यस्य स तादृशमग्रिमश्लोकम् । 'पद्ये
यशसि च श्लोकः' इत्यमरः । उत्तमश्लोकमभ्ययशसं गौरधरं भ्रमाक्रमेण सृष्टयाकुलचित्त-
Digitized by Google