This page has been fully proofread once and needs a second look.

स्तुतिकुसुमाञ्जलिः ।
 
अविरलभक्तिसिक्तनवसूक्तिलतावचितः

कलयतु सौरभेण सुकृतां स्पृहयालु मनः ॥ २६ ॥
 
३८ स्तोत्रम्]
 
४४९
 

 
इह श्रीशारदाचरणाम्बुजरजः पवित्रितस्थले किंकरेण हरचरणकिंकरापराभिधानेन मया

जगद्धरकविना तरुणेन्दुभृतश्चन्द्रमौलेर्भगवतः शंभोश्चरणकमलयो रचितः कृतः स्तुतिकुसु-

माञ्जलि: सौरभेण परमानन्ददायिना परिमलेन सुकृतां सुकृतिनां सहृदयानां मनः स्पृह

यालु सस्पृहं कलयतु करोतु । किंभूतः । अविरला महती अनन्यसामान्या या भक्तिः श्री-

शिवभक्तिस्तया सिक्ता या नवा नूतनाः सूक्तयः प्रौढोक्तय एव लतास्ताभ्योऽवचित उ
-
ञ्चितः । कुसुमान्यपि लताभ्य उच्चीयन्ते तथा प्रौढोक्तिभ्योऽयं ग्रन्थ उच्चित इत्यर्थः ॥

 
'अथातो ग्रन्थकृत्सकलप्रमथाधीशान्स्त्रीन्प्रभोस्त्रिजगदीशस्य पुरो निजग्रन्थनिवेदनायाभ्य-

र्थयति-

 
अयि प्रमथनायक त्रिजगतामधिष्ठायक
 

प्रसन्नमुख षण्मुख त्रिदशवन्द्य नन्दीश्वर ।

निवेदयत भक्तितश्चरणकिंकरेणार्पितं
 

पुरः पुररिपोरिमं विकचवाक्यपुष्पाञ्जलिम् ॥ २७ ॥

 
अयीति इष्टामन्त्रणे । हे त्रिजगतामधिष्ठायक हे प्रमथनायक गणपते, तथा प्रसन्नं मुखं

वदनं यस्य तस्य संबोधनं हे प्रसन्नमुख षण्मुख षाण्मातुर कुमार, तथा त्रिदशैर्देवैर्वन्द्य हे

नन्दीश्वर नन्दिरुद्र, मयि कृपां कुरुतेत्यध्याहारः । चरणकिंकरेण हरचरणकिंकरापराभि-

धानेन जगद्धरकविना पुररिपोस्त्रिपुरारेः पुरोऽप्ग्रे भक्तितो भक्त्युद्रेकादर्पितं समर्पितं विकच-

वाक्यपुष्पाञ्जलिं विकचानि प्रफुल्लानि नूतनानि यानि वाक्यानि तान्येव पुष्पाणि तेषामञ्ज-

लिस्तमिमं प्रभोः पुरो निवेदयत ॥
 

 
इति परिषदि सिंहस्यन्दनस्कन्दनन्दि-

प्रभृतिभिरभिराद्धैर्वन्द्यमावेद्यमानम् ।

स्तुतिकुसुमसै[^१]समूहं प्राभृतीकृत्य शंभो-

र्यदमलमुपलब्धं शर्म तेनेदमस्तु ॥ २८ ॥

 
भुवि भुवि कुविकल्पः स्वल्पतामेतु जेतुं
 

धुरि धुरि दुरितौघं वर्धतां शुद्धबोधः ।

पथि पथि मथितोग्रव्यापदापन्नतापा
 

नरि नरि परिपूर्णा जृम्भतां शंभुभक्तिः ॥ २९ ॥ (युग्मम्)

 
इति पूर्वोक्तप्रकारेण परिषदि सभायां गणाधीशसभायां सिंहस्यन्दनः सिंहवाहनो गण-
Digitized by Google