This page has been fully proofread once and needs a second look.

४४८
 
काव्यमाला ।
 
[^१]अङ्गस्थितां भगवतीमैघि[^२]मधिरूढहासा-

मासामवश्यमवबोधयति स्तुतीनाम् ॥ २३ ॥
 

 
नन्दिनि नन्दिरुद्रे द्वारपाले गणाधीशे आसां मदीयानां स्तुतीनां क्वचिद्रूढमर्थं श्रुढमर्थ श्रुत्वा

आनन्दिनि सानन्दे स्तुवति सति देवः दीव्यति परमे पदे इति देवः श्रीशंभुश्चमत्कारेण कृतो-

ऽङ्गुलीनां भङ्गभङ्गिस्रोटनविच्छित्तिर्येन स तादृशः अधिरूढ उत्पन्नो हास ईषद्धसनं यस्याः

सा तादृशीमङ्गस्थितामङ्गे वामाङ्गे स्थितां भगवतीमासां मदीयस्तुतीनां गूढमर्थेथं क्वचिद्रू-

ढार्थमवश्यमवबोधयति श्रावयिष्यति ॥
 

 
मन्ये मनोवचनकर्मभिरद्भुतानि
 

यान्यूर्जितानि सुकृतानि पुराकृतानि ।

एतानि तानि शिवभक्तिपवित्रितानि
 

कर्णामृतानि फलितानि सुभाषितानि ॥ २४ ॥
 

 
अहमिति मन्ये । किमितीत्याह-अद्भुतान्याश्चर्यकारीणि तथा ऊर्जितानि बहुलानि

सुकृतानि पुण्यान्यस्माभिर्मनोवाक्कायकर्मभिः पुरा पूर्वस्मिन् जन्मनि यानि कृतानि ता-

न्येतानि श्रीशिवभक्त्या पवित्रतानि पवित्रीकृतानि सुभाषितानि सूक्तानि फलितानि ।

सुभाषितानि कानि । कर्णयोरमृतानि रसायनानि ॥

 
एते प्रभोः प्रमथभर्तुरभीष्टमै[^३]मष्टा-

त्रिंशत्स्तवा विमृशतां विदुषां दिशन्तु ।

तेनैव दृक्षु भूतधधृतघर्मकरामृतांशु-

सप्तार्चिषामिव कलाः सकलार्थ[^४]लाभम् ॥ २५ ॥
 

 
प्रमंथानां नन्दिमहाकालभृङ्गिरिटिप्रभृतीनां गणानां र्ता श्रीशंभुस्तस्य एते मयोक्ता

अष्टात्रिंशत्स्तवा विमृशतां शिवभक्तिरसामृतमास्वादयतां विदुषां सचेतसां सकलार्थानां

चतुर्वर्गरूपाणां लाभस्तं दिशन्तु वितरन्तु । स्तवाः का इव । कला इव । केषाम् । तेनैव

प्रभुणा श्रीशंभुना दृभु तिसृषु दृष्टिषु धृतो र्मकरः सूर्यो दक्षिणदृष्टौ अमृतांशुश्चन्द्रो वाम
-
दृष्टौ सप्तार्चिरमिग्निर्ललाटस्थदृशि चेति तेषां सूर्यादीनां कला इवाष्टात्रिंशत् । यथा ता अपि

विमृशतां विदुषां सकलार्थलाभप्रदाः । अयं भावः - -सूर्यस्य द्वादशकलाः चन्द्रस्य षोडश

कला: वहेश्वह्वेश्च दश कलाः स्मृतौ प्रसिद्धाः । आसां संकलने कृतेऽष्टात्रिंशत्संभवन्ति

कलाः । अतश्चैता एवोपमानीकृता निजस्तवानाम् ॥
 

 
अथातः कविः सहृदयहृदयानन्ददायिनिजप्ग्रन्थस्याभिधानं कर्तुकाम आह -

 
अयमिह किंकरेण रचितश्चरणाम्बुजयो

स्तुतिकुसुमाञ्जलिर्भगवतस्तरुणेन्दुभृतः ।
 

 
[^
]. 'अङ्क' ख.
[^
]. 'अवतीर्ण' ख.
[^
]. 'अष्ट' ख.
[^
]. 'सिद्धिं' ख.
 
Digitized by Google