This page has been fully proofread once and needs a second look.

३८ स्तोत्रम् ]
 
स्तुतिकुसुमाञ्जलिः ।
 
यथा अकाले कुत्सितकाले शिशिरे जीर्णेणं केलिकाननं क्रीडोद्यानं मधुश्रीर्वसन्तश्रीर्यथा

तरुणीकरोति नवं संपादयति । यथा चातपेन क्षतं शुष्कं सरोवरं प्रावृड् वर्षासमयस्तरुणी-

करोति जलपूर्णं संपादयति तथैवेयं स्तवावली अकाले कुत्सिते समये जीर्णमुच्छिन्नं का

व्यकुतूहलं निपुणकविकर्मकौतुकं पुनस्तरुणीकरिष्यति । नवं संपादयिष्यतीत्यर्थः । इदं

मदीयं कविकर्म परीक्ष्यान्येऽपि कवयस्तदुद्युक्तमनसो भविष्यन्तीत्यर्थः ॥
 

 
विमत्सराणां सदसद्विवेकिनां महात्मनां मूर्ध्नि घृधृतोऽयमञ्जलिः ।

विलोकयन्तु प्रभुगौरवादिमां प्रसादबुद्ध्या मयि वा स्तवावलीम् ॥२०॥

 
विगतो मत्सरः परोत्कर्षासहनं येषां ते तादृशानाम् । तथा सदसद्विवेकिनां गुणदोष-

विवेचकानां महात्मनां धौताशयानां मूर्ध्नि शिरस्ययमञ्जलिः स्तुतिकुसुमाञ्जलिग्रन्थो धृतः

समर्पितः । अथ च तेषां महात्मनामप्ग्रेऽञ्जलिर्मया धृतो बद्धः । किमित्याह – इमां म
-
त्कृतां स्तवावलीं प्रभोस्त्रिजगत्स्वामिनो गौरवात् । स्वामिभत्तयेत्यर्थः । विलोकयन्तु परी-

क्षन्तु । अथवा मयि वराके प्रसादबुद्ध्यानुप्ग्रहबुद्ध्या विलोकयन्तु ॥
 

 
स्तवावलीढौकनकार्पणच्छलादलभ्यमभ्यर्णचरैः
 
सुरैरपि ।
 

प्रभोः पदस्पर्शमशङ्कमीप्सतो विकत्थनत्वेऽपि न मे विडम्बना ॥ २१ ॥

 
स्तवानामष्टात्रिंशत्संख्यानामावली पङ्क्तिः सैव ढौकनकमुपदा उपदीयते उपदा तवर्गतृ-

तीयान्ता तस्या अर्पणं तस्य च्छलात् प्रभोस्त्रिजगत्स्वामिनः पदस्पर्शं चरणाम्भोरुहस्पर्
शं
निःशङ्कमीप्सतः काङ्क्षमाणस्य मे विकत्थनत्वेऽपि विकत्थयतीति विकत्थनस्तस्य भाव-

स्तत्त्वं तत्रापि मया वराकेण त्रिजगदीशस्य चरणस्पर्शोऽवाप्त इति विकत्थनत्वेऽपि मम

विडम्बना उपहासो न । अत्र हेतुः स्तवावलीढ़ौकनकेति प्रागुक्तः । प्रभोः पदस्पर्शं किं-

भूतम् । अभ्यर्णचरैः समीपवर्तिभिः सुरैरिन्द्रादिमिभिरप्यलभ्यं दुष्प्रापम् ॥

 
कलिमलमषीकल्माषोऽयं मनोमुकुरः पुरः
 

स्फुरितमपि न व्यक्तं वस्तु ग्रहीतुमभूत्क्षमः ।

सपदि विशदैः शब्दब्रह्मोर्मिभिर्वि[^१]मले कृते
 
४४७
 

करबदरवत्पश्यामोऽस्मिन्समस्तमिदं जगत् ॥ २२ ॥
 

 
कलौ तुरीययुगे यन्मलमज्ञानजं सैव मषी तया कल्माष: शबलोऽयं मनोमुकुरश्चित्ता-

दर्शः पुरोऽप्ग्रे स्फुरितमपि व्यक्तमपि वस्तु प्ग्रहीतुमाकलयितुं न क्षमोऽभूत् । सपदि इदानीं

विशदैनिर्मलैः शब्दब्रह्मोर्मिभिर्वाणीविलासतरङ्गैस्त्रिजगदधीशस्तुतिरूपैरित्यर्थात् विमले कृते-

ऽस्मिन्मनोमुकुरे समस्तमिदं जगत्करे बदरफलवत्पश्यामः सर्वे शिवमयं जगदित्याकल-

याम इत्यर्थः ॥
 

 
आनन्दिनि स्तुवति नन्दिनि गूढमर्थं

देवश्चमत्कृतिकृताङ्गुलिभङ्गभङ्गिः ।
 

 
[^
]. 'विमलीकृते' ख.
 
Digitized by Google