2023-02-23 21:28:15 by ambuda-bot
This page has not been fully proofread.
३८ स्तोत्रम् ]
स्तुतिकुसुमाञ्जलिः ।
यथा अकाले कुत्सितकाले शिशिरे जीर्णे केलिकाननं क्रीडोद्यानं मधुश्रीर्वसन्तश्रीर्यथा
तरुणीकरोति नवं संपादयति । यथा चातपेन क्षतं शुष्कं सरोवरं प्रावृड् वर्षासमयस्तरुणी-
करोति जलपूर्ण संपादयति तथैवेयं स्तवावली अकाले कुत्सिते समये जीर्णमुच्छिन्नं का
व्यकुतूहलं निपुणकविकर्मकौतुकं पुनस्तरुणीकरिष्यति । नवं संपादयिष्यतीत्यर्थः । इदं
मदीयं कविकर्म परीक्ष्यान्येऽपि कवयस्तदुयुक्तमनसो भविष्यन्तीत्यर्थः ॥
विमत्सराणां सदसद्विवेकिनां महात्मनां मूर्ध्नि घृतोऽयमञ्जलिः ।
विलोकयन्तु प्रभुगौरवादिमां प्रसादबुद्ध्या मयि वा स्तवावलीम् ॥२०॥
विगतो मत्सरः परोत्कर्षासहनं येषां ते तादृशानाम् । तथा सदसद्विवेकिनां गुणदोष-
विवेचकानां महात्मनां धौताशयानां मूर्ध्नि शिरस्ययमञ्जलिः स्तुतिकुसुमाञ्जलिग्रन्थो धृतः
समर्पितः । अथ च तेषां महात्मनामप्रेऽञ्जलिर्मया धृतो बद्धः । किमित्याह – इमां म
त्कृतां स्तवावलीं प्रभोस्त्रिजगत्स्वामिनो गौरवात् । स्वामिभत्तयेत्यर्थः । विलोकयन्तु परी-
क्षन्तु । अथवा मयि वराके प्रसादबुद्ध्यानुप्रहबुद्ध्या विलोकयन्तु ॥
स्तवावलीढौकनकार्पणच्छलादलभ्यमभ्यर्णचरैः
सुरैरपि ।
प्रभोः पदस्पर्शमशङ्कमीप्सतो विकत्थनत्वेऽपि न मे विडम्बना ॥ २१ ॥
स्तवानामष्टात्रिंशत्संख्यानामावली पतिः सैव ढौकनकमुपदा उपदीयते उपदा तवर्ग-
तीयान्ता तस्या अर्पणं तस्य च्छलात् प्रभोस्त्रिजगत्स्वामिनः पदस्पर्श चरणाम्भोरुहस्पर्श
निःशङ्कमीप्सतः काङ्क्षमाणस्य मे विकत्थनत्वेऽपि विकत्थयतीति विकत्थनस्तस्य भाव-
स्तत्त्वं तत्रापि मया वराकेण त्रिजगदीशस्य चरणस्पर्शोऽवाप्त इति विकत्थनत्वेऽपि मम
विडम्बना उपहासो न । अत्र हेतुः स्तवावलीढ़ौकनकेति प्रागुक्तः । प्रभोः पदस्पर्श किं-
भूतम् । अभ्यर्णचरैः समीपवर्तिभिः सुरैरिन्द्रादिमिरप्यलभ्यं दुष्प्रापम् ॥
कलिमलमषीकल्माषोऽयं मनोमुकुरः पुरः
स्फुरितमपि न व्यक्तं वस्तु ग्रहीतुमभूत्क्षमः ।
सपदि विशदैः शब्दब्रह्मोर्मिभिर्विमले कृते
४४७
करबदरवत्पश्यामोऽस्मिन्समस्तमिदं जगत् ॥ २२ ॥
कलौ तुरीययुगे यन्मलमज्ञानजं सैव मषी तया कल्माष: शबलोऽयं मनोमुकुरश्चित्ता-
दर्शः पुरोऽप्रे स्फुरितमपि व्यक्तमपि वस्तु प्रहीतुमाकलयितुं न क्षमोऽभूत् । सपदि इदानीं
विशदैनिर्मलैः शब्दब्रह्मोर्मिभिर्वाणीविलासतरङ्गैस्त्रिजगदधीशस्तुतिरूपैरित्यर्थात् विमले कृते-
ऽस्मिन्मनोमुकुरे समस्तमिदं जगत्करे बदरफलवत्पश्यामः सर्वे शिवमयं जगदित्याकल-
याम इत्यर्थः ॥
आनन्दिनि स्तुवति नन्दिनि गूढमर्थं
देवश्चमत्कृतिकृताङ्गुलिभङ्गभङ्गिः ।
१. 'विमलीकृते' ख.
Digitized by Google